________________
न्याय-दीपिका
श्रीवर्द्धमानमर्हन्तं चतुर्विंशतितमं तीर्थकरं महावीरम् । अथवा, श्रिय --अनन्तचतुष्टयस्वरूपान्तरङ्गलक्षणया समवसरणादिबहिरङ्गस्वभावय च लक्ष्म्या-, वर्द्धमानः-वृद्धेः परमप्रकर्ष प्राप्तः, अर्हन् परमार्हत्समूह स्तम् । नत्वा नमस्कृत्य, कायवाङ्मनसां त्रिशुद्धया प्रणम्येत्यर्थः । बालान मन्दबुद्धीनाम् । बालास्त्रिविधाः प्रोक्ता:-मतिकृताः, कालकृताः, शरीर परिमाणकृताश्चेति । तत्रेह मतिकृता बाला गृह्यन्ते नान्ये, तेषां व्यभिचारात् कश्चिदष्टवर्षीयोऽपि निखिलज्ञानसंयमोपपन्नः सर्वज्ञः, कुब्जको वा सकल शास्त्रज्ञो भवति । न च तौ व्युत्पाद्यौ । अथ मतिकृता अपि बालाः किल्ल क्षणा इति चेत्; उच्यते; अव्युत्पन्न-संदिग्ध-विपर्यास्तास्तत्त्वज्ञानरहित बालाः । अथवा, ये यत्रानभिज्ञास्ते तत्र बालाः । अथवा, ग्रहणधारणपटवो बालाः, न स्तनन्धयाः । अथवा, अधीतव्याकरण-काव्य-कोशा अनधोत न्यायशास्त्रा बालाः । तेषां प्रबुद्धये प्रकर्षेण संशयादिव्यवच्छेदेन बोधार्थम् । मितो मानयुक्तः परिमितो वा। स्पष्टो व्यक्तः । सन्दर्भो रचना यस्यां सा चासौ 'न्यायदीपिका'-प्रमाण-नयात्मको न्यायस्तस्य दीपिका प्रकाशिका । समासतो न्यायस्वरूपव्युत्पादनपरो ग्रन्थो 'न्यायदीपिका' इति भावः । विरच्यते मया धर्मभूषणयतिना इति क्रियाकारकसम्बन्धः ।
ननु मङ्गलं न करणीयं निष्फलत्वात् । न हि तस्य किञ्चित्फलमुपलभ्यते । न च निर्विघ्नपरिसमाप्तिस्तत्फलमुपलभ्यत एवेति वाच्यम् समाप्तेर्मङ्गलफलत्वानुपपत्तेः । तथा हि-मङ्गलं समाप्ति प्रति न कारणम्, अन्वय-व्यतिरेकव्यभिचाराभ्याम् । सर्वत्र ह्यन्वयव्यतिरेकविधया कार्य कारणभावः समधिगम्यते । कारणसत्त्वे कार्यसत्त्वमन्वयः, कारणाभावे कार्याभावो व्यतिरेकः । न चेमौ प्रकृते सम्भवतः, मङ्गलसत्त्वेऽपि माक्षमार्गप्रकाशादौ समाप्त्यदर्शनात् । मङ्गलाभावेऽपि च परीक्षामुखादौ समाप्तिदर्शनात् । अतोऽन्वयव्यभिचारो व्यतिरेकव्यभिचारश्च । कारणसत्त्वे कायोसत्त्वमन्वयव्यभिचारः । कारणाभावे कार्यसत्त्व च व्यतिरेकव्यभिचार इति न चेतसि विधेयम् ; मङ्गलस्य सफलत्वसिद्धे : निष्फलत्वानुपपत्तेः । तद्यथा