________________
श्रीसमन्तभद्राय नमः श्रीमदमिनव-धर्मभूषण-यति-विरचिता
न्याय-दीपिका [प्रकाशाख्यटिप्पणोपेता] १. प्रमाणसामान्यप्रकाशः
श्रीवर्द्धमानमर्हन्तं नत्वा बाल-प्रबुद्धये। विरच्यते मित-स्पष्ट-सन्दर्भ-न्यायदोपिका ॥१॥
ETE
* प्रकाशाख्य-टिप्पणम् * महावीरं जिनं नत्वा बालानां सुख-बुद्धये।
'दीपिकाया' विशेषार्थः 'प्रकाशेन' प्रकाश्यते ॥१॥ १ प्रकरणारम्भे, स्वकृतेनिर्विघ्नपरिसमाप्त्यर्थम्, शिष्टाचारपरिपालमार्थम्, शिष्यशिक्षार्थम्, नास्तिकतापरिहारार्थम्, कृतज्ञताप्रकाशनार्थ वा करणकार: श्रीमदभिनवधर्मभूषणनामा यति: स्वेष्टदेवतानमस्कारात्मकं मङ्गलं विदधाति-श्रीवर्धमानेति ।