________________
३५०
कूलवालकमुनिज्ञातम्। पेषणाय दुरात्मना ॥३३६॥ श्रुत्वा खडखडाशब्दं गुरुराकुञ्चितेक्षणः । आलुलोके तमश्मानं पतन्तं पविगोलवत् ॥३३७॥ चक्रे च वितते जङ्ग्रे स ग्रावाऽपि तदन्तरे । निरियायापदः प्रायः प्रभवन्ति न धीमति ॥३३८॥ शशाप च गुरुः क्षुल्लं कुपितस्तेन कर्मणा । स्त्रीसकाशादरे पाप ! व्रतभङ्गमवाप्स्यसि ॥३३९॥ क्षुल्लोऽब्रवीद्गुरो ! शापं करिष्यामि तवान्यथा । तत्र वत्स्याम्यरण्येऽहं यत्र द्रक्ष्यामि न स्त्रियम् ॥३४०॥ इति सद्यो गुरुं त्यक्त्वा मर्यादामिव दुर्मतिः । निर्मानुषामरण्यानीं स शार्दूल इवाविशत् ॥३४१॥ गिरिकूलंकषामूले स्थितः प्रतिमया सदा । स मासादर्धमासाद्वा पथिकादेरपारयत् ॥३४२॥ एवं कूलंकषामूले मुनेस्तस्य तपस्यतः । प्रावृट् प्रादुर्बभूवाब्दवितानितनभस्तला ॥३४३॥ रसोद्रेकेण लुम्पन्त्य उभे कूले कुले इव, नद्य उन्मार्गगामिन्यो बभूवुः कुलटा इव ॥३४४॥ क्षुल्लाधिष्ठितकूलायामुत्यूरायां सरित्यथ । दध्यौ तद्देवता भक्ता शासने श्रीमदर्हताम् ॥३४५॥ कूलस्थितो मुनिरयं कूलद्रुम इवाधुना । नेष्यते वारिपूरेण यापेक्षां करोम्यहम् ॥३४६॥ ततो गिरिणदीदेव्या निजं कूलं दिशाऽन्यया । प्रावर्ति यत्र तत्रापि क्षेममेव तपोजुषाम् ॥३४७॥ कूलवालक इत्याख्या तदा तस्य मुनेरभूत् । साम्प्रतं वर्ततेऽमुत्र प्रदेशे स महातपाः ॥३४८॥ कृतकृत्येव सा सद्यः स्मयमानेक्षणा ययौ । कूलवालकविज्ञानात् फलितच्छद्मपादपा ॥३४९॥ वन्दमानाऽथ चैत्यानि तीर्थयात्राच्छलेन सा । तमुद्देशममुपेयाय यत्रर्षिः कूलवालकः ॥३५०॥ वन्दित्वा तं मनिवरं सा मायाश्राविकाऽवदत् । उज्जयन्तादितीर्थानि वन्दयेऽहं मुने ! त्वया ॥३५१॥ कायोत्सर्ग मुनिर्मुक्त्वा धर्मलाभाशिषं ददौ । तीर्थान्यवन्दतापृच्छच्चाऽऽगतासि कुतः शुभे ? ॥३५२॥ साऽऽख्यन्महर्षे ! चम्पाया आगां तीर्थानि वन्दितुम् । तीर्थेभ्यः परमं तीर्थमिह यूयं ગુરુને ખબર પડી. જોયું. પગ પહોળા કર્યા. પત્થર વચ્ચેથી જતો રહ્યો. ગુરુએ શાપ माप्यो, 'स्त्रीया तारा प्रतनो भंग थशे.' शिष्य बोल्यो, 'मापन॥ ॥पने निष्क्षण કરીશ. એવા સ્થળે વસીશ જયાં સ્ત્રીને જોઈશ પણ નહીં.' આમ કહી ગુરુને છોડી મનુષ્ય વિનાના જંગલમાં પેઠો. નદીના કાંઠે કાઉસ્સગ્નમાં રહ્યો. પંદર દિવસે - મહિને મુસાફરો પાસેથી પારણું કરે છે. ચોમાસું આવ્યું. નદી ભરાઈ ગઈ. નદીની અધિષ્ઠાત્રી દેવતાએ મુનિને બચાવવા નદીનો પ્રવાહ વાળ્યો. તેથી તેનું નામ ફૂલવાલક પડ્યું. તે અત્યારે આ સ્થળ છે.” તે ચૈત્યોને વંદન કરતી કરતી મુનિ પાસે આવી. વંદન કરીને તે માયાશ્રાવિકા બોલી, “ઉજ્જયંત વગેરે તીર્થો તમને વંદાવું છું.' મુનિએ કાઉસ્સગ્ન