________________
पीठमहापीठज्ञातम्।
२७३ अत्र प्रथमं ज्ञातं पञ्चदशवृत्तविवरणे उक्तम् ।
द्वितीयमुदाहरणं वसतिमार्गप्रकाशक-श्रीजिनेश्वरसूरिविरचित- पञ्चलिङ्गीप्रकरणस्य श्रीजिनपतिसूरिनिर्मितटीकायामष्टमगाथाविवरणे एवं दृश्यते – 'जम्बूद्वीपेऽस्ति पौरस्त्यविदेहे स्रस्तरे श्रियाम् । विजये पुष्कलावत्यां नगरी पुण्डरीकिणी ॥५६॥ .....तत्र साम्राज्यमव्याजं वज्रसेनोऽतनोन्नृपः । पत्रिमतीर्थकृन्नामसम्पादुक-समीहितः ॥६३॥ ....समजायत स्थवीयोमुक्ताफलमालभारिणी तस्य । सुभगंभविष्णुरूपा प्रियंवदा धारिणी देवी ॥७१॥....च्युत्वाऽच्युतात्ततः पूर्वं तयोः सूनुतयाऽजनि। वज्रनाभो भिषक्जीवो धाम्ना वज्र इवाऽपरः ॥७३॥ क्रमेण तेऽथ सुहृदो जज्ञिरे तत्सहोदराः । बाहुः सुबाहुः पीठश्च महापीठश्च नामतः ॥७४॥...अभिषिच्य सुतं ज्येष्ठं सौराज्ये प्राव्रजन्नृपः । न स्वादुभोज्यलाभेऽपि पञ्जरे रमते हरिः ॥७८॥...ततो भगवतो यत्र दिने ऽजायत केवलम् । तत्रैव वज्रनाभस्य चक्रमायुधसद्मनि ॥८०॥....पितुः पार्वे ततश्चक्री प्राव्राजीत सह सोदरैः । तप्यन्त्यप्राप्य किंकल्पपादपं भोगभभवः ॥१५८॥ ततोऽध्यगीष्ट पूर्वाणि वज्रनाभश्चतुर्दश । हेलया निर्निमेषो हि प्रज्ञोन्मेषो महात्मनाम् ॥१५९॥ सर्वेऽप्येकादशाङ्गानि भ्रातरस्त्वध्यगीषत । प्रभा यादृग्विधोस्तादृक्तस्त्या ज्योतिषामपि ॥१६०॥ भगवान्वज्रनाभस्य ततः सूरिपदं न्यधात् । अव्याहतं सदा स्वाम्यमग्राम्यं पुण्यशालिनाम् ॥१६१॥ तत्र बाहुनिराशंस उत्सहिष्णुरदाम्भिकः । साधूनां भक्तपानादिदानाभिग्रहमग्रहीत् ॥१६२॥ श्रमणानामविश्रान्तस्वाध्यायाध्यापनादिभिः । श्रान्तिभाजां सुबाहुः स्त्राग् विश्रामणमुपाशृणोत् ॥१६३॥ साम्राज्यश्रीपरिरम्भलालितौ तौ च तादृशम् । दुस्तरं प्रतिजज्ञाते वैयावृत्त्यं सुभृत्यवत् ॥१६४॥ यद्वा पद्माः श्रियः पात्रं नित्यं किं विकचाननाः । नाचरन्त्युष्णरुग्भानुसन्तापसहनव्रतम् ॥१६५॥ यथास्वं कर्मणोदृष्ट्वा सूरिस्तावप्रमद्वरौ । जन्मजीवितसाफल्य
આમાં પહેલું ઉદાહરણ ૧૫મા શ્લોકના વિવરણમાં જણાવ્યું છે.
વસતિમાર્ગના પ્રકાશક શ્રી જિનેશ્વરસૂરિ રચિત પંચલિંગી પ્રકરણની શ્રીજિનપતિસૂરિરચિત ટીકામાં આઠમી ગાથાના વિવરણમાં પીઠ-મહાપીઠનું કથાનક આ પ્રમાણે દેખાય છે - “જંબુદ્વીપમાં પૂર્વમહાવિદેહમાં પુંડરીકિણી નગરી છે. ત્યાં વસેન રાજા રાજ્ય કરતા હતા. તેમની ધારિણી રાણી હતી. વૈદ્યનો જીવ અચુત દેવલોકમાંથી ચ્યવી તેમનો વજનાભ નામે દિકરો થયો. ક્રમે કરીને મિત્રો તેના બાહુ, સુબાહુ, પીઠ, મહાપીઠ નામે ભાઈઓ થયા. વજસેન રાજાએ ચારિત્ર લીધું. પાંચે ભાઈઓએ પણ પછી ચારિત્ર લીધું. વજનાભને આચાર્યપદવી આપી. બાહુમુનિ આહારપાણીથી સાધુઓની વૈયાવચ્ચ કરે છે. સુબાહુમુનિ