________________
२६७
गुरवः केनाऽपि कारणेन विशेषसन्मानादिकं ददति । षत्रिशद्गुणसमन्विताः, यदुक्तं पंचिंदियसूत्रे
'१पंचिंदियसंवरणो, तह नवविहबंभचेरगुत्तो । चउव्विहकसायमुक्को, इअ अठारसगुणेहिं संजुत्तो ॥१॥ पंचमहव्वयजुत्तो, पंचविहायारपालणसमत्थो ।
पंचसमिओ तिगुत्तो, छत्तीसगुणो गुरू मज्झ ॥२॥' शिष्याणाम् - शिष्याः - गुरुप्रतिपत्तिरताः, तेषामिति शिष्याणां, योग्यायोग्यस्वरूपं - योग्यम्-उचितम् चायोग्यम्-अनुचितञ्च तयोः समाहार इति योग्यायोग्यम्, तच्च तत्स्वरूपम् - स्वभावश्चेति योग्यायोग्यस्वरूपम्, तत्कर्मतापन्नम्, ज्ञात्वा - अवबुध्य, केनापिगुरुमनोवर्तिना शिष्याऽज्ञातेन, अत्रापिशब्दः शिष्यसन्मानादिविशेषदर्शने गुरुमनोगतानामनेककारणानां सूचनार्थम्, कारणवशेन कारणम् – निमित्तम्, तस्य वश:-अधीनतेति कारणवशः, तेनेति कारणवशेन, शिष्यान्प्रतीत्यध्याहार्यम्, सन्मानादिविशेषम् - सन्मानम् - श्लाघनम्, तद् आदौ - अग्रे येषां त इति सन्मानादयः, तेषां विशेषः - भेदो हीनाधिकरूप इति सन्मानादिविशेषः, तमिति सन्मानादिविशेषम्, दर्शयन्ति - प्रकटयन्ति ।
अयं समासार्थः । विस्तरार्थस्त्वेवम् - शिष्या द्विविधाः सन्ति - योग्या अयोग्याश्च । तत्र योग्यशिष्याणामिदं स्वरूपम् - सर्वमनुष्ठानं ते यथाविधि यथाशक्ति चानुतिष्ठन्ति, अपाल्यमानस्याऽपि कृत्यस्य तेषां हृदये दुःखं वर्त्तते । सर्वानतिचारान्गुरोः पुरो निवेद्य ૩૬ ગુણોવાળા ગુરુ હોય. પંચિંદિયસૂત્રમાં આ જ વાત કહી છે. શિષ્યો ગુરુની સેવામાં રત હોય. ગુરુઓ શિષ્યોના યોગ્ય અને અયોગ્ય સ્વરૂપને જાણે છે. તેથી કોઈ પણ કારણસર શિષ્યોને ઓછું-વધુ સન્માન વગેરે આપે છે.
આ સંક્ષેપમાં અર્થ કહ્યો. વિસ્તારથી અર્થ આ રીતે સમજવો - શિષ્યો બે પ્રકારના હોય છે - યોગ્ય અને અયોગ્ય. યોગ્ય શિષ્યોનું સ્વરૂપ આવે છે - બધી ક્રિયાઓ તેઓ વિધિપૂર્વક શક્તિ પ્રમાણે કરે છે. જે ન કરી શકતા હોય તેનું તેમના હૃદયમાં દુઃખ હોય. બધા અતિચારો ગુરુની આગળ જણાવી ગુરુએ આપેલ પ્રાયશ્ચિત્ત કરીને તેઓ શુદ્ધ થાય
१. पञ्चेन्द्रियसंवरणः, तथा नवविधब्रह्मचर्यगुप्तः ।
चतुर्विधकषायमुक्तः, इति अष्टादशगुणैः संयुक्तः ॥१॥ पञ्चमहाव्रतयुक्तः, पञ्चविधाचारपालनसमर्थः । पञ्चसमितः त्रिगुप्तः, षट्त्रिंशद्गुणः गुरुः मम ॥२॥