________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
आभ्यां पराद् ग्रहेराक्रोशे गम्ये भावा ऽकर्त्री- 'र्घञ् स्यात् । निग्राहः, अवग्राहो वा ते जाल्म ! भूयात् । शाप इति किम् ? निग्रहश्चौरस्य ||५६ || प्रालिप्सायाम् | ५|३|५७॥
૪
प्रपूर्वाद् ग्रहेर्लिप्सायां गम्यायां भावा- ऽकर्त्री 'र्घञ्' स्यात् । पात्रप्रग्राहेण चरति पिण्डपातार्थी भिक्षुः । लिप्सायामिति किम् ? सुवः प्रग्रहः शिष्यस्य || ५७ ॥ समो मुष्टौ |५|३|५८ ॥
संपूर्वाद् ग्रहेर्मुष्टिविषये धात्वर्ये भावा ऽकर्त्री- 'र्घञ् स्यात् । संग्राहो मल्लस्य । मुष्टाविति किम् ? संग्रहः शिष्यस्य ॥ ५८ ॥
यु-दु-द्रोः | ५/३/५९॥
संपूर्वेभ्य एभ्यो भावा- ऽकर्त्री - 'र्घञ्' स्यात् । संयावः, संदावः, संद्रावः ।। नियश्चाऽनुपसर्गाद् वा | ५|३|६०||
अनुपसर्गात् नियो यु-दु-द्रोश्च भावाकर्त्री- 'र्घञ् वा स्यात् । नयः, नायः; यवः, यावः; दवः, दावः; द्रवः, द्रावः । अनुपसर्गादिति किम् ? प्रणयः ||६० ॥ वोदः | ५|३|६१ ॥
उत्पूर्वात् नियो भावा - Sकर्त्री- 'र्घञ् स्याद् वा' । उन्नायः, उन्नयः ||६१ || अवात् |५|३|६२||
अवपूर्वात् नियो भावाकर्त्री- 'र्घञ्' स्यात् । अवनायः ॥ ६२ ॥ परेद्यूते |५|३|६३॥
परिपूर्वाद् नियो द्यूतविषयार्थाद् भावाकर्त्री- 'र्घञ्' स्यात् । परिणायेन शारीन् हन्ति । द्यूत इति किम् ? परिणयोऽस्याः || ६३ ॥
भुवोऽवज्ञाने वा | ५|३|६४ ॥
परिपूर्वाद् भुवोऽवज्ञानार्थाद् भावा- ऽकर्त्री - 'र्घञ् स्याद् वा । परिभावः,