SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २२५ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् सामान्यवतीति किम् ? बहुजातिमिः ।।१३९॥ भृतिप्रत्ययान्मासादिकः ७।३।१४०॥ भृत्याद् यः प्रत्ययस्तदन्तात् परो यो मासस्तदन्ताद् बहुव्रीहे-'रिकः' स्यात् । पञ्चको मासोऽस्य पञ्चकमासिकः । मासादिति किम् ? पञ्चकदिवसकः ।।१४०॥ द्विपदाद् धर्मादन् ।७।३।१४१॥ धर्मान्ताद् द्विपदाद् बहुव्रीहे-'रन्' स्यात् । साधुधर्मा । द्विपदादिति किम् ? परमस्वधर्मः ॥१४॥ सु-हरित-तृण-सोमाज्जम्भात् ७।३।१४२॥ एभ्यः परो यो जम्भस्तदन्ताद् बहुव्रीहे-'रन्' स्यात् । सुजम्मा, हरितजम्मा, तृणजम्मा, सोमजम्मा ना ||१४२॥ दक्षिणेर्मा व्याधयोगे ७३११४३॥ अयं बहुव्रीहिरनन्तो निपात्यः, व्याधेन योगे सति । ईम-बहु व्रणं वा, दक्षिणेर्मा मृगः । व्याधयोग इति किम् ? दक्षिणेर्मः पशुः ॥१४३॥ सु-पूत्युत-सुरभेर्गन्धादिद् गुणे ७।३।१४४॥ एभ्यः परो गुणार्थो यो गन्धस्तदन्ताद् बहुव्रीहे-'रित्' स्यात् । सुगन्धि, पूतिगन्धि, उद्गन्धि, सुरभिगन्धि द्रव्यम् । गुण इति किम् ? द्रव्ये, सुगन्ध आपणिकः ॥१४॥ वाऽऽगन्तौ ७।३।१४५॥ स्वादिभ्यः पर आहार्यगुणार्थो यो गन्धस्तदन्ताद् बहुव्रीहे-'रिद् वा' स्यात् । सुगन्धिः, सुगन्धो वा कायः; एवं- पूतिगन्धिः, पूतिगन्धः; उद्गन्धिः, उद्गन्धः; सुरभिगन्धिः, सुरभिगन्धः ॥१४५॥ वाल्ये ७३।१४६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy