SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २२३ स्वाङ्गार्थी यौ सक्त्य्यक्षी, तदन्ताद् बहुव्रीहेः 'ट:' स्यात् । दीर्घसक्थी, स्वक्षी। स्वाङ्ग इति किम् ? दीर्घसक्थि अनः ॥१२६।। द्वित्रेनों वा ७।३।१२७॥ आभ्यां परो यो मूर्धा तदन्ताद् बहुव्रीहे: 'टो वा' स्यात् । द्विमूर्धः, द्विमूर्धा । त्रिमूर्धः, त्रिमूर्धा ॥१२७॥ प्रमाणी-संख्याहः ७।३।१२८॥ प्रमाण्यन्तात् सङ्ख्याऽर्थाच्च बहुव्रीहे-':' स्यात् । स्त्रीप्रमाणाः कुटुम्बिनः, द्वित्राः ॥१२८॥ सुप्रात-सुश्व-सुदिव-शारिकुक्ष चतुरभैणीपदा-ऽजपद प्रोष्ठपद-भद्रपदम् ।७।३।१२९॥ एते बहुव्रीहयो 'डान्ता निपात्याः' । सुप्रातो ना, सुश्वः, सुदिवः, शारिकुक्षः, चतुरमः, एणीपदः, अजपदः, प्रोष्ठपदः, भद्रपदः ॥१२९॥ पूरणीभ्यस्तव्याधान्येऽप् ७३।१३०॥ पूरणप्रत्ययान्ता या त्री, तदन्ताद् बहुव्रीहे-'रप्' स्यात्, पूरण्याः प्राधान्ये समासार्यत्वे सति । कल्याणीपञ्चमा रात्रयः । तयाधान्य इति किम् ? कल्याणपञ्चमीकः पक्षः ॥१३०॥ नञ्-सु-युप-प्रेवतुरः ७३।१३१॥ एभ्यो यश्चत्वाः, तदन्ताद् बहुव्रीहे-रप्' स्यात् । अचतुरः, सुचतुरः, विचतुरः, उपचतुरः, त्रिचतुरः ॥१३॥ अन्तर्वहिया लोग्नः ७।३।१३२॥ आभ्यां परो यो लोमा, तदन्तात् बहुव्रीहे-'रप्' स्यात् । अन्तर्लोमः, बहिर्लोमः प्रावारः ॥१३२॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy