SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २२२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् - संख्यातैक-पुण्य-वर्षा-दीर्घाच रात्ररत् ।७।३।११९॥ एभ्यः, सर्वांशादेश्च परो यो रात्रिस्तदन्तात् तत्पुरुषा-'दत्' स्यात् । सङ्ख्यातरात्रः, एकरात्रः, पुण्यरात्रः, वर्षारात्रः, दीर्घरात्रः, सर्वरात्रः, पूर्वरात्रः, द्विरात्रः, त्रिरात्रः, अतिरात्रः ॥११९॥ पुरुषायुष-द्विस्ताव-त्रिस्तावम् ७।३।१२०॥ एते तत्पुरुषा 'अदन्ता निपात्याः' । पुरुषायुषम्, द्विस्तावा, त्रिस्तावा वेदिः ॥१२०॥ श्वसो वसीयसः ७।३।१२१॥ श्वसः परो यो वसीयान्, तदन्तात् तत्पुरुषा-'दत्' स्यात् । श्वोवसीयसम् ॥ निसश्च श्रेयसः ७।३।१२२॥ निसः, श्वसश्च परो यः श्रेयान्, तदन्तात् तत्पुरुषा-'दत्' स्यात् । निःश्रेयसम्, श्वःश्रेयसम् ॥१२२॥ नत्रव्ययात् संख्याया डः ७।३।१२३॥ आभ्यां परो यः सङ्ख्यार्थस्तदन्तात् तत्पुरुषाड् 'ड:' स्यात् । अदशाः, निस्त्रिंशः खड्गः ॥१२३॥ संख्या-ऽव्ययादगुलेः १७।३।१२४॥ आभ्यां परो योऽङ्गुलिस्तदन्तात् तसुरुषाड् 'ड' स्यात् । यङ्गुलम्, निरगुलम् ॥१२४॥ बहुव्रीहेः काष्ठे टः ७।३।१२५॥ काधादिगुल्यन्ताद् बहुव्रीहे: 'ट:' स्यात् । यगुलं काष्ठम् । काष्ठ इति किम् ? पञ्चाङ्गुलिहस्तः ॥१२५॥ सकृत्यक्ष्णः स्वाङ्गे ७।३।१२६॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy