________________
औलपीयः ॥६७॥
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२१५
श्रुमच्छमीवच्छिखावच्छालावदूर्णावद्-विदभृदभिजितो गोत्रेऽणो यत्र |७|३|६८ ॥
एम्यो गोत्राऽणन्तेभ्यः स्वार्थे 'यञ् द्रिः' स्यात् । श्रीमत्यः, शामीवत्यः, शैखावत्यः, शालावत्यः, और्णावत्यः, वैदभृत्यः, अभिजित्यः ||६८ || समासान्तः | ७|३|६९॥
अतः परं विधास्यमानं 'समासस्यावयवः' स्यात्, ततस्तस्य तत्तत्समाससंज्ञा । सुजम्भे, सुजम्भानी स्त्रियौ, उपधुरम्, द्विधुरी, प्रकृत्वचिनी ||६९ || न किमः क्षेपे |७|३|७०॥
निन्दार्थात् किमः परं यद् ऋगादि तदन्तात् समासात् समासान्तो न' स्यात् । किंधूः, किंसखा । क्षेप इति किम् ? केषां राजा किंराजः ||७० ||
नञ्तत्पुरुषात् ।७।३।७१ ॥
अस्मात् 'समासान्तो न' स्यात् । अनृक, अराजा । तत्पुरुषादिति किम् ? न विद्यते धूरस्याधुरं शकटम् ॥ ७१ ॥
पूजास्वतेः प्राक् टात् | ७|३|७२॥
पूजार्थस्वतिभ्यां परं यद् ऋगादि तदन्तात् 'टात् प्राग् यः समासान्तः स न' स्यात् । सुधूः, अतिधूरियम् । पूजेति किम् ? अतिराजोऽरिः । प्राक् टादिति किम् ? स्वगुलं काष्ठम् ॥७२॥
बहोर्डे | ७|३|७३॥
डस्य प्राप्तिर्यतस्ततः समासान्तो 'डः कच न' स्यात् । उपबहवो घटाः । ड इति किम् ? प्रियबहुकः ॥७३॥
इज् युद्धे |७|३|७४ ||