________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१६७
-
पृथ्वादेरिमन् वा ७।१५८॥ एभ्यो भावे वा 'इमन्' स्यात् । प्रथिमा, पृथुत्वम्, पृथुता, पार्यवम्; म्रदिमा, मृदुता, मार्दवम् ॥५८॥
वर्ण-दृढादिभ्यष्ट्यण च वा ।७।१।५९॥ वर्णविशेषार्थेभ्यो दृढादेव तस्य भावे 'ट्यण् इमन् च स्याद् वा' । शौक्ल्यम्, शुक्किमा, शुकृत्वम्, शुकृता; शैत्यम्, शितिमा, शितित्वम्, शितिता, शैतम्। दार्यम्, ढिमा, दृढत्वम्, दृढता; वैत्यम्, विमतिमा, विमतित्वम्, विमतिता, वैमतम् ।।५९॥
पति-राजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च ७११६०॥ पत्यन्तराजान्तेभ्यो गुणोऽ प्रवृत्तौ हेतुर्येषां तेभ्यो, राजादेश्व, तस्य भावे क्रियायां च 'ट्यण' स्यात् । आधिपत्यम्, अधिपतित्वम्, अधिपतिता; आधिराज्यम्, अधिराजत्वम्, अधिराजता; मौढ्यम्, मूढत्वम्, मूढता; राज्यम्, राजत्वम्, राजता; काव्यम्, कवित्वम्, कविता ॥६०॥
अर्हतस्तोन्त च ७।१।६१॥ अस्मात् तस्य भावे कर्मणि च 'ट्यण' स्यात्, तद्योगे च तस्य ‘न्तादेशः' । आर्हन्त्यम्, अर्हत्त्वम्, अर्हत्ता ॥६॥
सहायाद् वा ७११६२॥ अस्मात् तस्य भावे कर्मणि च 'ट्यण् स्याद् वा' । साहाय्यम्, साहायकम्, सहायत्वम्, सहायता ॥२॥
सखि-वणिग्-दूताद् यः १७११६३॥ एभ्यस्तस्य भावे कर्मणि च यः' स्यात् । सख्यम्, सखित्वम्, सखिता; वणिज्या, वणिक्त्वम्, वणिक्ता, वाणिज्यम्; दूत्यम्, दूतत्वम्, दूतता,