________________
१६४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् आमिक्ष्यः, आमिक्षीयः, युग्यः ॥३५॥
न राजा-ऽऽचार्य-ब्राह्मण-वृष्णः ७।११३६॥ एभ्यश्चतुर्थ्यन्तेभ्यो हिते-'ऽधिकृतः प्रत्ययो न' स्यात् । राज्ञे, आचार्याय, ब्राह्मणाय, वृष्णे वा हित इति वाक्यमेव ॥३६॥
प्राण्यङ्ग-स्व-खल-तिल-यव-वृष-ब्रह्म-माषाद् यः ७११॥३७॥ प्राण्यङ्गार्थेभ्यो रथादिभ्यश्चतुर्दान्तेभ्यो हिते 'यः' स्यात् । दन्त्यम्, रथ्या भूमिः, खल्यम्, तिल्यम्, यव्यम्, वृष्यं क्षीरम्, ब्रहाण्यो देशः, माष्यः, राजमाष्यः ॥३७॥
अव्यजात् थ्यप् ७१।३८॥ आभ्यां तस्मै हिते 'थ्यप्' स्यात् । अविथ्यम्, अजपा यूतिः ॥३८॥
चरक-माणवादीनञ् ७।११३९॥ आम्यां तस्मै हिते 'ईनञ्' स्यात् । चारकीणः, माणवीनः ॥३९॥
भोगोत्तरपदा-ऽऽत्मभ्यामीनः ।७।११४०॥ भोग उत्तरपदं यस्य तस्माद, आत्मनश्च तस्मै हिते 'ईनः' स्यात् । मातृभोगीणः, आत्मनीनः ॥४०॥
पञ्च-सर्व-विश्वाजनात कर्मधारये ७।१।४१॥ पञ्चादेः पराज्जनात् कर्मधारयवृत्तेः तस्मै हिते 'ईनः' स्यात् । पञ्चजनीनः, सर्वजनीनः, विश्वजनीनः । कर्मधारय इति किम् ? पञ्चानां जनाय हितः पञ्चजनीयः ॥४१॥
महत-सर्वादिकण ७११॥४२॥ आभ्यां पराज्जनात् कर्मधारयवृत्तेस्तस्मै हिते 'इकण्' स्यात् । माहाजनिकः, सार्वजनिकः ॥४२॥