________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
सेर्निवासादस्य ।।३।२१३॥ सेरिति- प्रथमान्तानिवासादि, अस्येति- षष्ट्यर्थे 'यथोक्तं प्रत्ययः' स्यात् । नौजः, नादेयः ॥२१३।।
आभिजनात् ।६।३।२१४॥ अभिजनाः-पूर्वबान्धवाः, तनिवासार्थात् स्यन्तात् षष्ट्यर्थे 'ययोक्तं प्रत्ययः' स्यात् । सौनः, राष्ट्रियः ॥२१४||
शण्डिकादेर्व्यः ।६।३।२१५॥ अस्मात् स्यन्तादाभिजननिवासार्थाद् अस्येत्यर्थे ‘ण्यः' स्यात् । शाण्डिक्यः; कौचवार्यः ॥२१५॥
सिन्ध्वादेरञ् ।६।३।२१६॥ अस्मात् स्यन्तादाभिजननिवासार्याद् षष्ठ्यर्थे-'ऽञ्' स्यात् । सैन्धवः, वार्णवः ॥२१६॥
सलातुरादीयण ।६।३।२१७॥ अस्मात् स्यन्तादाभिजननिवासार्थात् षष्ठ्यर्थे 'ईयण' स्यात् । सालातुरीयः पाणिनिः ॥२१७॥
तूदी-वर्मत्या एयण् ।६।३।२१८॥ आभ्यां स्यन्ताभ्यामाभिजननिवासार्याभ्यां षष्ठ्यर्थे “एयण' स्यात् । तौदेयः, वामतेयः ॥२१८॥
गिरेरीयोऽम्राजीवे ।६।३२२१९॥ गिरिर्य आभिजनो निवासस्तदर्यात् स्यन्तात् षड्यर्थेऽस्त्राजीवे 'ईयः' स्यात् । हृद्गोलीयः ॥२१९॥
इत्याचार्यत्रीमान्नाविरचितायां सिखडेमचन्द्राभिषानस्वोपनशब्दानुशासन