SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अमो भजत्यर्थे 'यथोक्तं प्रत्ययः' स्यात् । सौनः, राष्ट्रियः ॥२०४॥ __ महाराजादिकण् ।६।३।२०५॥ अतोऽमो भजती-'कण्' स्यात् । माहाराजिकः ॥२०५।। अचित्ताददेशकालात् ।६।३।२०६॥ देशकालवण यदचेतनं तदर्थादमो भजती-'कण' स्यात् । आपूपिकः ।। अचित्तादिति किम् ? देवदत्तः । अदेशेत्यादि किम् ? सौजः, हैमनः ।।२०६।। वासुदेवा-ऽर्जुनादकः ।६।३।२०७॥ आभ्याममन्ताभ्यां भजत्यर्थे-'sकः' स्यात् । वासुदेवकः, अर्जुनकः ।।२०७॥ गोत्र-क्षत्रियेभ्योऽका प्रायः ।६।३।२०८॥ गोत्रार्थात् क्षत्रियार्थाच्चाऽमन्ताद् भज-'त्यकञ् प्रायः' स्यात् । औपगवकः, नाकुलकः । प्रायः किम् ? पाणिनीयः ॥२०८॥ सरूपाद् द्रः सर्व राष्ट्रवत् ।६।३।२०९॥ राष्ट्रक्षत्रियार्थात् सरूपाद् यो द्विरुक्तः तदन्तस्याऽमो भजत्यर्थे सर्व प्रकृतिः प्रत्ययश्च 'राष्ट्रस्येव' स्यात् । वाय, माद्रं, पाण्ड्यं वा भजति वृजिकः, मद्रकः, पाण्डवकः । सरूपादिति किम् ? पौरवीयम् ।।२०९॥ टस्तुल्यदिशि ।६।३।२१०॥ ट इति- तृतीयान्तात् तुल्यदिश्यर्थे 'यथोक्तं प्रत्ययः' स्यात् । सौदामनी विद्युत् ॥२१०॥ तसिः ।२११॥ टाऽन्तात् तुल्यदिके 'तसिः' स्यात् । सुदामतो विद्युत् ॥२११॥ यधोरसः ६३३२१२॥ अतः टाऽन्तात्, तुल्यदिक य-तसी' स्याताम् । अस्यः, उरस्तः ॥२१२।।
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy