________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् देवाः, गोविन्दः, कुविन्दः । नाम्नीति किम् ? निलिपः ॥६१॥
वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽसोर्णः ।५।११६२॥ ज्वलादेर्धातोर्दुनोत्यादेराम्रोश्चानुपसर्गाण्-'णो वा' स्यात् । ज्वलः, ज्वालः; चलः, चालः; दवः, दावः; नयः, नायः; भवः, भावः; ग्राहो मकरादिः, ग्रहः सूर्यादिः; आम्रवः, आम्रावः । अनुपसर्गादिति किम् ? प्रज्वलः ॥१२॥
अवह-सा-संम्रोः ।५।११६३॥ अवपूर्वाभ्यां ह-साभ्यां संपूर्वाञ्च स्रो-'णः' स्यात् । अवहारः, अवसायः, संम्रावः ॥६३॥
तन-व्यधीण-श्वसातः ।५।११६४॥ एभ्य आदन्तेभ्यश्च धातुभ्यो ‘णः' स्यात् । तानः, व्याधः, प्रत्यायः, श्वासः, अवश्यायः ॥६४॥
नृत-खन्-रजः शिल्पिन्यकट् ।५।१।६५॥ एभ्यः शिल्पिनि कर्तर्यकट् स्यात् । नर्तकी, खनकः, रजकः । शिल्पिनीति किम् ? नर्तिका ॥६५॥
गस्थकः ।५।१६६॥ गः शिल्पिनि कर्तरि 'यकः' स्यात् । गायकः ॥६६॥
टनण ।५।११६७॥ ___ गः शिल्पिनि 'टनण' स्यात् । गायनी ॥६७॥
हः काल-व्रीयोः ।५।११६८॥ हाको हाङो वा काल-व्रीबोष्टनण् स्यात् । हायनो वर्षम्, हायना व्रीहयः, हाताऽन्यः ॥६॥
पु-सृ-ल्वोऽकः साधौ ।५।१।६९॥