________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
एभ्यो 'णिन्' स्यात् । ग्राही, स्थायी ॥५३॥
नाम्युपान्त्य-प्री-कृ-ग-ज्ञः कः ।५।११५४॥ नाम्युपान्त्येभ्यो धातुभ्यः, प्रयादिभ्यश्च 'कः' स्यात् । विक्षिपः, प्रियः, किरः, गिरः, ज्ञः ॥५४॥
गेहे ग्रहः ।५।१।५५॥ गेहेऽर्थे ग्रहेः 'कः' स्यात् । गृहम्, गृहाः ॥५५॥
उपसर्गादातो डोऽश्यः ।५।११५६॥ उपसर्गात् परात् श्यैङ्वर्जादाकारान्ताद् धातो-'ई:' स्यात् । आह्वः । उपसर्गादिति किम् ? दायः । अश्य इति किम् ? अवश्यायः ॥५६।।
व्याघ्रा-ऽऽने प्राणि-नसोः ।५।११५७॥ एतौ यथासङ्ख्यं प्राणिनि नासिकायां चार्थे प्रो डे निपात्येते । व्याघ्रः, आघ्रा ।५७।।
घ्रा-मा-पा-धे-दृशः शः ।५।११५८॥ एभ्यः 'शः' स्यात् । जिघ्रः, उद्धमः, पिबः, उद्धयः, उत्पश्यः ॥५८॥ साहि-साति-वेद्युदेजि-धारि-पारि-चेतेरनुपसर्गात
५११५९॥ एभ्योऽनुपसर्गेभ्यो ण्यन्तेभ्यः 'शः' स्यात् । साहयः, सातयः, वेदयः, उदेजयः, धारयः, पारयः, चेतयः । अनुपसर्गादिति किम् ? प्रसाहयिता ॥५९॥
लिम्प-विन्दः ।५।१।६०॥ आभ्यामनुपसर्गाभ्यां 'शः' स्यात् । लिम्पः, विन्दः ॥६०॥
नि-गवादेनाम्नि 1५1१।६१॥ यथासंख्यं निपूर्वाल्लिम्पेर्गवादिपूर्वाञ्च विन्देः संज्ञायां 'शः' स्यात् । निलिम्पा