________________
११०
श्रीसिटहेमचन्द्रशब्दानुशासनम्
राष्ट्रशब्दात् शेषप्राग्जितीयेऽर्थे 'इयः' स्यात् । राष्ट्रियः ॥३॥
दूरादेत्यः ।६।३।४॥ दूरात् शेषेऽर्थे 'एत्यः' स्यात् । दूरेत्यः ॥४॥
उत्तरादाहञ् ।६।३।५॥ उत्तरशब्दात् शेषेऽर्थे 'आहज्' स्यात् । औत्तराहः ॥५॥
पारावारादीनः ॥६॥३६॥ पारावारशब्दात् शेषेऽर्थे 'ईनः' स्यात् । पारावारीणः ॥६॥
व्यस्त-व्यत्यस्तात ।६३७॥ पारावारात् शेषे 'ईनः' स्यात् । पारीणः, अवारीणः, अवारपारीणः ॥७॥
यु-प्रागपागुदक्-प्रतीचो यः ॥६॥३८॥ दिवशब्दात् प्राच् अपाच उदच् प्रत्यच् इत्येतेभ्यश्चाव्ययाऽनव्ययेभ्यः शेषेऽर्थे 'यः' स्यात् । दिव्यम्, प्राच्यम्, अपाच्यम्, उदीच्यम्, प्रतीच्यम् ॥८॥
ग्रामादीनञ् च ।६।३॥९॥ ग्रामाच्छेषेऽर्थे 'ईना यश्च' स्यात । ग्रामीणः, ग्राम्यः ॥९॥
कन्यादेश्चयकञ् ।६।३।१०॥ कठ्यादिभ्यो ग्रामाच शेषे “एयकञ्' स्यात् । कात्रेयकः, पौष्करेयकः, ग्रामेयकः ॥१०॥
कुण्ड्यादिभ्यो यलुक् च ।६।३।११॥ कुण्ड्यादिभ्यः शेषेऽर्थे 'एयकञ्' स्यात्, तद्योगे च यो लुक्' । कौण्डेयकः, कोणेयकः ॥११॥
कुल-कुक्षि-ग्रीवाच्याऽस्यलझारे ।६।३।१२॥ एभ्यः शेषेऽर्थे यथासंख्य- मेयकम्' स्यात् । कौलेयकः श्या, कौशेय
याद