________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
नाम्यादेरेव ने ।२।३१८६॥ अदुरुपसर्गान्तःस्थाद् रादेः परस्य नाऽऽगमे सति नाम्यादेरेव धातोः परस्य स्वरादुत्तरस्य कृतस्य 'नो ण्' स्यात् । प्रेङ्गणम्, प्रेङ्गणम्, प्रेङ्गणीयम् । नाम्यादेरिति किम् ? प्रमहनम् ॥८६॥
व्यञ्जनादे म्युपान्त्याद् वा ।२।३।८७॥ अदुरुपसर्गान्तःस्थाद् रादेः परो यो व्यञ्जनादि म्युपान्त्यो धातुस्ततः परस्य कृतः स्वरात्परस्य 'नो ण् वा' स्यात् । प्रमेहणम्, प्रमेहनम् । व्यञ्जनादेरिति किम् ? प्रोहणम् । नाम्युपान्त्यादिति किम् ? प्रवपणम्, प्रवहणम् । स्वरादित्येव - प्रमुग्नः । अदुरित्येव- दुर्मोहनः । ल-च-टादिवर्जनं किम् ? प्रभेदनम्, प्रभोजनम् । “स्वराद् (२,३,८५)" इत्यनेन नित्यप्राप्ते विभाषेयम् ।।८७।।
र्वा ३८८॥ अदुरुपसर्गान्तःस्थाद् रादेः परस्य ण्यन्तस्य धातोर्विहितस्य स्वरात्परस्य कृतो 'नो ण् वा स्यात् । प्रमगणा, प्रमझना । विहितविशेषणं किम् ? प्रयाप्यमाणः प्रयाप्यमान इति क्यान्तरेऽपि स्यात् ॥८॥
निर्विण्णः ।२।३१८९॥ निर्विदेः सत्ता-लाम-विचारार्थात् परस्य क्तस्य 'नो णत्वम्' स्यात् । निर्विण्णः ।।८९॥
न ख्या-पूग-भू-मा-कम-गम-प्याय-वेपोऽणेश्च ।।३।९०॥ अदुरुपसर्गान्तःस्थाद् रादेः परेभ्यः ख्यादिभ्योऽण्यन्त-ण्यन्तेभ्यः परस्य कृतो 'नो ण् न' स्यात् । प्रख्यानम्, प्रख्यापनम् । प्रपवनम्, प्रपावनम् । प्रभवनम्, प्रभावना । प्रभायमानम्, प्रमापना । प्रकामिनी, प्रकामना । अप्रगमनिः, प्रगमना । प्रप्यानः, प्रप्यायना । प्रवेपनीयम्, प्रवेपटा ॥१०॥