________________
९०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
धातुपाठे क-खादिः षान्तश्च यो धातुस्ताभ्यामन्यस्मिन् धातौ परेऽदुरुपसर्गान्तःस्थाद् रादेः परस्य ने! 'ण वा' स्यात् । प्रणिपचति, प्रनिपचति । अकखादीति किम् ? प्रनिकरोति, प्रनिखनति । अषान्त इति किम् ? प्रनिद्वेष्टि । पाठ इति किम् ? प्रनिचकार ॥८॥
द्वित्वेऽप्यन्तेप्यनितेः, परेस्तु वा ।२।३८१॥ अदुरुपसर्गान्तःस्थाद् रादेः परस्याऽनिते! द्वित्वा-ऽद्वित्वयोरन्ता-ऽनन्तयोश्च 'ण' स्यात्, परिपूर्वस्य तु वा स्यात् । प्राणिणिषति, पराणिति, हे प्राण ! । पर्यणिणिषति, पर्यनिनिषति; पर्यणिति, पर्यनिति; हे पर्यण !, हे पर्यन् ! ॥८१॥
हनः ।२।३१८२॥ अदुरुपसर्गान्तःस्थाद् रादेः परस्य हन्ते! 'ण' स्यात् । प्रहण्यते, अन्तहण्यते ॥८२॥
व-मिवा ।२।३१८३॥ अदुरुपसर्गान्तःस्थाद् रादेः परस्य 'हन्ते! -मोः परयोर्ण वा' स्यात् । प्रहण्वः, प्रहन्वः; प्रहण्मि, प्रहन्मि; अन्तर्हण्वः अन्तर्हन्वः; अन्तर्हःमः, अन्तर्हन्मः ॥८३॥
निस-निक्ष-निन्दः कृति वा ।२।३।८४॥ अदुरुपसर्गान्तःस्थाद् रादेः परस्य निसादिधातोर्नो ‘ण वा' स्यात्, कृत्प्रत्यये । प्रणिंसनम्, प्रनिसनम्, प्रणिक्षणम्, प्रनिक्षणम्, प्रणिन्दनम्, प्रनिन्दनम् । कृतीति किम् ? प्रणिस्ते ।।८४॥
स्वरात् ।२।३।८५॥ अदुरुपसर्गान्तःस्थाद् रादेः परस्य स्वरादुत्तरस्य कृतो 'नो ण' स्यात् । प्रहाणः, प्रहीणः ॥८५॥
व-मिवा २ नमोः परयोर्ण वा अन्तमा,