________________
८८
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
इरिकादिवर्जनं किम् ? इरिकावनम् ॥६७॥
गिरिनद्यादीनाम् । २।३।६८॥
एषाम् 'नो ण् वा' स्यात् । गिरिणदी, गिरिनदी; तूर्यमाणः, तूर्यमानः ॥६८॥ पानस्य भावकरणे | २|३|६९॥
पूर्वपदस्थाद् रादेः परस्य भावकरणार्थस्य पानस्य 'नो ण् वा' स्यात् । क्षीरपाणं क्षीरपानं स्यात् । कषायपाणः कषायपानः कंसः ॥ ६९ ॥ देशे | २|३|७०॥
पूर्वपदस्थाद्रादेः परस्य देशविषयस्य पानस्य 'नो ण् नित्यम्' स्यात् । क्षीरपाणा उशीनराः । देश इति किम् ? क्षीरपाना गोदुहः ॥७०॥ ग्रामाऽग्रान्नियः । २।३॥७१॥
आभ्यां परस्य नियो 'नो ण्' स्यात् । ग्रामणीः, अग्रणीः ॥७१॥ वाह्या वाहनस्य ।२।३।७२ ॥
वाह्यवाचिनो रादिमतः पूर्वपदात् परस्य वाहनस्य 'नो ण्' स्यात् । इक्षुवाहणम् । वाह्यादिति किम् ? सुरवाहनम् ॥७२॥ अतोऽह्नस्य ।२।३।७३॥
I
रादिमतोऽदन्तात् पूर्वपदात् परस्याऽह्नस्य 'नो ण्' स्यात् । पूर्वाह्नः । अत इति किम् ? दुरह्नः । अह्नस्येति किम् ? दीर्घानी शरत् ॥ ७३ ॥
चतुस्त्रेर्हायनस्य वयसि । २।३।७४ ॥
आभ्यां पूर्वपदाभ्यां परस्य हायनस्य 'नो ण्' स्यात्, वयसि गम्ये । चतुर्हायणो वत्सः, त्रिहायणी वडवा । वयसीति किम् ? चतुर्हायना शाला ॥ ७४ ॥ वोत्तरपदान्तन- स्यादेरयुव पक्वा ऽहूनः | २|३|७५॥
पूर्वपदस्थाद् रादेः परस्य उत्तरपदान्तभूतस्य नाऽऽगमस्य स्यादेश्च 'नो ण् वा'