________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
८७
स्-वर्णानो ण एकपदेऽनन्त्यस्या-उल-च-ट-तवर्ग-श-सान्तरे
।।३।६३॥ एभ्यः परस्यैभिः सहकस्मिन्नेव पदे स्थितस्याऽनन्त्यस्य 'नो णः' स्यात् । लच-ट-तवर्गान् श-सौ च मुक्त्वाऽन्यस्मिनिमित्त-कार्यिणोरन्तरेऽपि । तीर्णम्, पुष्णाति, नृणाम्, नृणाम्, करणम्, बृंहणम्, अर्केण । एकपद इति किम् ? अग्निर्नयति, चर्मनासिकः । अनन्त्यस्येति किम् ? वृक्षान् । लादिवर्जन किम् ? विरलेन, मूर्छनम्, दृढेन, तीर्थेन, रशना, रसना ॥३॥
पूर्वपदस्थात्राम्यगः ।२।३।६४॥ गन्तवर्जपूर्वपदस्थाद् र-वर्णात् परस्योत्तरपदस्थस्य 'नो ण्' स्यात् संज्ञायाम् । गुणसः,खरणाः, शूर्पणखा । नाम्नीति किम् ? मेषनासिकः । अग इति किम् ? ऋगयनम् ॥६४॥
नसस्य ॥२॥३॥६५॥ पूर्वपदस्थाद् स्व र्णात् परस्य नसस्य 'नो ण्' स्यात् । प्रणसः ॥६५॥ निष्या-ऽग्रे-ऽन्तः-खदिर-काया-ऽऽम्र-शरेक्षु-प्लक्ष-पीयुक्षा
भ्यो वनस्य ॥२॥३॥६६॥ निरादिभ्यः परस्य वनस्य 'नो ण्' स्यात् । निर्वणम्, प्रवणम्, अग्रेवणम्, अन्तर्वणम्, खदिरवणम्, कार्यवणम्, आम्रवणम्, शरवणम्, इक्षुवणम्, प्लक्षवणम्, पीयुक्षावणम् ॥६६॥
द्वि-त्रिस्वरौषधि-वृक्षेभ्यो नवाऽनिरिकादिभ्यः ।२।३१६७॥ द्विस्वरेभ्यस्त्रिस्वरेभ्यश्चेरिकादिवर्जेम्य ओषधि-वृक्षवाचिभ्यः परस्य वनस्य 'नो ण वा' स्यात् । दूर्वावणम्, दूर्वावनम्; माषवणम्, माषवनम्; नीवारवणम्, नीवारवनम् । वृक्ष - शिवणम्, शिग्रुवनम् शिरीषवणम्, शिरीषवनम् ।