________________
७०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
एतत्प्रत्ययान्तैर्युक्तात् 'षष्ठी' स्यात् । उपरि उपरिष्टात् परस्तात् पुरस्तात् पुरः दक्षिणतः उत्तराद् वा ग्रामस्य ॥८२॥
कर्मणि कृतः ।२।२१८३॥ कृदन्तस्य कर्मणि 'षष्ठी' स्यात् । अपां नया, गवां दोहः । कर्मणीति किम् ? शस्त्रेण भेत्ता, स्तोकं पक्ता | कृत इति किम् ? मुक्तपूर्वी ओदनम् ॥८३॥
द्विषो वाऽतृशः ।२।२१८४॥ अतृशन्तस्य द्विषः कर्मणि 'षष्ठी वा' स्यात् । चौरस्य चौरं वा द्विषन् ।।८४॥
वैकत्र द्वयोः ।२।२१८५॥ द्विकर्मकेषु धातुषु कृप्रत्ययान्तेषु द्वयोः कर्मणोरेकतरस्मिन् 'षष्ठी वा' स्याद् । अन्यत्र पूर्वेण नित्यमेव । अजाया नेता सुघ्नं सुजस्य वा । अथवा अजामजाया वा नेता सुजस्य ॥८५॥
कर्तरि २२१८६॥ कृदन्तस्य धातोः कर्तरि 'षष्ठी' स्यात् । भवत आसिका । कर्तरीति किम् ? गृहे शायिका ॥८६॥
दिहेतोरस्त्यणकस्य वा ।२।२१८७॥ स्त्र्यधिकारविहिताभ्यामणकाभ्यामन्यस्य द्वयोः- कर्तृकर्मषड्योहेतोः कृतः कतरि 'षष्ठी वा' स्यात् । विचित्रा सूत्राणां कृतिराचार्यस्याऽऽचार्येण वा । द्विहेतोरित्येकवचनं किम् ? आश्चर्यमोदनस्य पाकोऽतिथीनां च प्रादुर्भावः । अस्त्र्यणकस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम्, भेदिका चैत्रस्य काछानाम् ॥८॥
कृत्यस्य वा ।२२।८८॥ कृत्यस्य कर्तरि षछी वा स्यात् । त्वया तव वा कृत्यः कटः ॥८॥