________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
ऋणादेतोः ।२।२।७६॥ हेतुभूतऋणवाचिनः ‘पञ्चमी' स्यात् । शताद् बद्धः । हेतोरिति किम् ? शतेन बद्धः ॥७६।।
गुणादस्त्रियां नवा ।२।२७७॥ अस्त्रीवृत्तेहेतुभूतगुणवाचिनः ‘पञ्चमी वा' स्यात् । जाड्यात् जाड्येन वा बद्धः, ज्ञानात् ज्ञानेन वा मुक्तः । अस्त्रियामिति किम् ? बुद्ध्या मुक्तः ।।७७।।
आरादथैः ।२।२७८॥ आराद्-दूरमन्तिकं च, तदर्थैर्युक्तात् 'पञ्चमी वा' स्यात् । दूरं विप्रकृष्टं वा ग्रामाद् ग्रामस्य वा । अन्तिकमभ्यासं वा ग्रामाद् ग्रामस्य वा ॥७८॥
स्तोका-ऽल्प-कृच्छ्र-कतिपयादसत्त्वे करणे ।२।२७९॥ यतो द्रव्ये शब्दप्रवृत्तिः स गुणोऽसत्वं तेनैव वा रूपेणाऽभिधीयमानं द्रव्यादि, तस्मिन् करणे वर्तमानेभ्यः स्तोकादिभ्यः ‘पञ्चमी वा' स्यात् । स्तोकात् स्तोकेन वा, अल्पादल्पेन वा, कृच्छात् कृच्छ्रेण वा, कतिपयात् कतिपयेन वा मुक्तः । असत्त्व इति किम् ? स्तोकेन विषेण हतः ॥७९॥
अज्ञाने ज्ञः षष्ठी ।२।२१८०॥ अज्ञानार्थस्य जो यत्करणं तद्वाचिन एक-द्वि-बहौ यथासंख्यं उसोसांलक्षणा 'षष्ठी' नित्यं स्यात् । सर्पिषः सर्पिषोः सर्पिषां वा जानीते । अज्ञान इति किम् ? स्वरेण पुत्रं जानाति । करण इत्येव-तैलं सर्पिषो जानाति ॥८॥
शेषे ।।२।८१॥ कर्मादिभ्योऽन्यस्तदविवक्षारूपः स्व-स्वामिभावादिसम्बन्धविशेषः शेषस्तत्र 'षष्ठी' स्यात् । राज्ञः पुरुषः, उपगोरपत्यम्, न माषाणामश्नीयात् ।।८।।
रि-रिष्टात-स्तादस्तादसतसाता ।२।२।८२॥