________________
श्रीसिद्धडेमचन्द्रशन्दानुशासनम्
२६३
उपात् स्तुतौ ।४।४।१०५॥ उपात् परस्य लभः स्वरात् परो यादौ प्रत्यये स्तुती गम्यायाम् 'न् अन्तः' स्यात् । उपलम्म्या विद्या । स्तुताविति किम् ? उपलभ्या वार्ता ॥१०५॥
जि-खणमोर्वा ४४१०६॥ जौ ख्गमि च लभः स्वरात् परो 'न् अन्तो वा' स्यात् । अलाभि, अलम्मि । सम्मेलम्भम्, लाभलाभम् ॥१०६॥
उपसर्गात खल्योश्च ।४।४१०७॥ उपसर्गाद् उमः स्वरात् परः खस्यजोर्जि-ख्णमोश्च परयो- 'न् अन्तः' स्यात् । दुष्प्रलम्भम्, प्रलम्भः, प्रालम्भि, प्रलम्भंप्रलम्भम् । उपसर्गादिति किम् ? लामः ॥१०७॥
सु-दुर्यः ।४।४।१०८॥ आम्यां समस्त-व्यस्ताभ्याम् उपसर्गात् पराभ्यां परस्य लभः, स्वरात् परः खल्यो-!ऽन्तः' स्यात् । अतिसुलम्मम्, अतिदुर्लम्मम्; अतिसुलम्भः, अतिदुर्लम्मः; अतिसुदुर्लम्मम्, अतिसुदुर्लम्मः । उपसर्गादित्येव-सुलभम् ॥
नशो धुटि ।४।४।१०९॥ नशेः स्वरात् परो धुडादौ प्रत्यये 'अन्तः' स्यात् । नंथ । धुटीति किम् ? नशिता ॥१०९॥
मस्जेः सः ४४११०॥ मस्जेः स्वरात् परस्य सस्य धुडादौ प्रत्यये 'न् अन्तः' स्यात् । मजा ॥
__ अः सृजि-दृशोऽकिति ।४।४।१११॥ अनयोः स्वरात् परो धुडादौ प्रत्यये 'अदन्तः स्यात्, न तु किति' । स्रष्टा, द्रष्टुम् । अकितीति किम् ? सृष्टः ।।१११॥