________________
२६२
श्रीसिदहेमचन्द्रशब्दानुशासनम्
प्रात् तुम्पतेर्गवि ।४।४९७॥ 'प्रात् तुम्पतेर्गवि कर्तरि स्सडादिः' स्यात् । प्रस्तुम्पति गौः । गवीति किम् ? प्रतुम्पति तरुः ॥९७॥
उदितः स्वरानोऽन्तः ।४।४९८॥ उदितो धातोः 'स्वरात् परो न अन्तः' स्यात् । नन्दति, कुण्डा ॥१८॥
मुचादि-तृफ-दृफ-गुफ-शुभोभः शे ।४।४।९९॥ एषां शे परे ‘स्वरात्रोऽन्तः' स्यात् । मुञ्चति, पिंशति, तृम्फति, दृम्फति, गुम्फति, शुम्भति, उम्मति ॥१९॥
जभः स्वरे ।४।४।१००॥ जभेः स्वरात् परः स्वरादी प्रत्यये 'नोऽन्तः' स्यात् । जम्मः ॥१०॥
रघ इटि तु परोक्षायामेव ।४।४।१०१॥ रधः स्वरात् परः स्वरादी प्रत्यये 'नोऽन्तः स्यात्, इडादौ तु परोक्षायामेव' । रन्धः, ररन्धिव । परोक्षायामेवेति किम् ? रधिता ॥१०॥
रभोऽपरोक्षा-शवि ४१४११०२॥ रमेः स्वरात् परः परोक्षा-शव्वले स्वरादी प्रत्यये 'न् अन्तः' स्यात् । आरम्भः । अपरोक्षाशवीति किम् ? आरेभे, आरभते ॥१०२॥
लभः ।४।४।१०३॥ लभः स्वरात् परः परोक्षाशवर्षे स्वरादी प्रत्यये 'न् अन्तः' स्यात् । लम्भकः ॥१०॥
आडो यि ।४।४११०४॥ आङः परस्य लभः स्वरात् परो यादौ प्रत्यये 'न् अन्तः' स्यात् । आलभ्या गौः । यीति किम् ? आलब्धाः ॥१०४॥