________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अच्छर्दिष्यत्; तितृत्सति, तितर्दिषति । असिच इति किम् ? अकर्तीत् ।।
गमोऽनात्मने ।४।४५१॥ गमः परस्य ‘स्ताधशितः सादेरिट् स्यात्, न त्यात्मनेपदे' । गमिष्यति । अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् ? संगसीष्ट ॥५१॥
स्नोः ।४।४५२॥ स्नोः परस्य 'स्ताघशितोऽनात्मनेपदे आदिरिद् स्यात् । प्रस्नविष्यति । अनात्मन इत्येव- प्रास्नोष्ट ।।५२॥
क्रमः ।४।४५३॥ क्रमः परस्य 'स्तायशित आदिरिद् स्यात्, अनात्मनेपदे । क्रमिष्यति, प्रक्रमितुम् । अनात्मन इत्येव- प्रकंस्यते ॥५३॥
तुः ॥४॥४॥५४॥ अनात्मनेपदविषयात् क्रमः परस्य 'तु-स्ताशित आदिरिट्' स्यात् । क्रमिता । अनात्मन इत्येव- प्रक्रन्ता ॥५४॥
न वृद्भ्यः ॥४॥४॥५५॥ वृदादिपञ्चकात् परस्य 'स्ताधशित आदिरिट् न' स्यात, न घेदसावात्मनेपदनिमित्तम् । वयंति, विवृत्सति; स्यन्त्स्यति, सिस्यन्त्सति ॥५५।।
एकस्वरादनुस्वारेतः ॥४॥५६॥ एकस्वरादनुस्वारेतो धातोविहितस्य 'स्तापशित आदिरिद् न स्यात् । पाता । एकस्वरादिति किम् ? अवधीत् ॥५६॥
अवर्ण-पूर्णगः कितः ।।४५७॥ ऋवर्णान्ताद् धातोः श्रेलोध एकस्वराद् विहितस्य 'कित आदिरिद् न' स्यात् । वृतः, तीा, विदः, ऊर्तुत्वा । एकस्वरादित्येव- जागरितः ।