________________
२५४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
किशितः, किशितवान्, विशित्वा ॥४५॥
सह-लुभेच्छ-रुष-रिषस्तादेः ।४।४॥४६॥ एभ्यः परस्य 'स्तायशितस्तादेरिड् वा' स्यात् । सोढा, सहिता; लोब्धा, लोभिता; एटा, एषिता; रोटा, रोषिता; रेष्टुम्, रेषितुम् ॥४६॥ इवृष-भ्रस्ज-दम्भ-श्रि-यूष्णु-भर-ज्ञपि-सनि-तनि-पति-वृद्
दरिद्रः सनः ।४।४।४७॥ इवन्ताद् ऋधादिभ्य ऋदन्तेभ्यो दरिद्रश्च परस्य ‘सन आदिरिड् व स्यात् । दुवूषति, दिदेविषति; ईसति, अदिधिषति;, बिभक्षति, बिभर्जिषति; धिप्सति, धीप्सति, दिदम्भिषति;, शिश्रीषति, शिश्रयिषति; युयूषति, यियविषति; प्रोणुनूषति, प्रोणुनविषति; बुमूर्षति, बिमरिषति; जीप्सति, जिज्ञपयिषति; सिषासति, सिसनिषति; तितसति, तितनिषति; पित्सति, पिपतिषतिः प्रावुर्षति, प्राविवरिषति; बुर्षते, विवरीषते; तितीर्षति, तितरीषति; दिदरिद्रासति, दिदरिद्रिषति ॥४७॥
ऋ-स्मि-पूङञ्जशी-क-ग-दृ-घृ-प्रच्छः ४१४४८॥ एभ्यः परस्य 'सन आदिरिद्' स्यात् । अरिरिषति, सिस्मयिषते, पिपविषते, अजिजिषति, अशिशिषते, चिकरीषति, जिगरीषति, आदिदरिषते, आदिधरिषते, पिपृच्छिषति ॥४८॥
हनृतः स्यस्य ।४॥४॥४९॥ हन्तेः ऋदन्ताच परस्य 'स्यस्याऽऽदिरिद्' स्यात् । हनिष्यति, करिष्यति ॥
कृत-वृत-नृत-द-तृदोऽसिचः सादेवा ॥४॥४॥५०॥ एभ्यः परस्या'ऽसिचः सादेः स्तापशित आदिरिड् वा स्यात् । कर्त्यति, कर्तिष्यति; चित्सति, थिचर्तिषति; नस्य॑ति, नतिष्यति; अच्छय॑त्,