________________
श्रीसिदहेमचन्द्रशब्दानुशासनम्
२०५
पृ-भू-मा-हाडामिः ।४।११५८॥ एषां शिति द्वित्वे 'पूर्वस्य इ.' स्यात् । पिपर्ति, इयर्ति, विभर्ति, मिमीते, जिहीते । हाङिति किम् ? जहाति । शितीत्येव- पपार ॥५८॥
एषां शितिहाडिति किम् ? जहा
१५९॥
अस्येति किम् ?
द्वित्वे 'पूर्वस्यातः सनि परे इ.' स्यात् । पिपक्षति । अस्येति किम् ? पापचिषते ॥५९॥
ओर्जाऽन्तस्या-पवर्गेऽवणे ४११६०॥ द्वित्वे 'पूर्वस्योतोऽवर्णान्ते जान्तस्थापवर्गे परे सनि इ.' स्यात् । जिजावयिषति, यियविषति, यियावयिषति, रिरावयिषति, लिलावयिषति, पिपविषते, पिपावयिषति, मिमावयिषति । जान्तस्थापवर्ग इति किम् ? जुहावयिषति । अवर्ण इति किम् ? बुभूषति ॥६०॥
श्रु-सु-द्रु-गु-प्लु-च्यो ।४।११६१॥ एषां सनि द्वित्वे 'पूर्वस्योतोऽवर्णान्तायामन्तस्थायां परस्याम् इर्वा' स्यात् । शिश्रावयिषति, शुश्रावयिषति; सिमावयिषति, सुस्रावयिषति; दिद्रावयिषति, दुद्रावयिषति; पिप्रावयिषति, पुप्रावयिषति; पिप्लावयिषति, पुप्लावयिषति; चिच्यावयिषति, चुच्यावयिषति ॥६॥
स्वपो णावुः ।४।१।६२॥ 'स्वर्णी सति द्वित्वे पूर्वस्योत्' स्यात् । सुष्वापयिषति । णाविति किम् ? सिष्वापकीयिषति । स्वपो णाविति किम् ? स्वापं चिकीर्षति= सिष्वापयिषति । स्वपो णौ सति द्वित्व इति किम् ? सोषोपयिषति ॥६॥
असमानलोपे सन्चलघुनि डे ४११६३॥ 'न विद्यते समानस्य लोपो यस्मिन्, तस्मिन् उपरे णौ द्वित्वे, पूर्वस्य