________________
२०४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
ध्वस्यते, बनीप्रश्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्कद्यते ॥५०॥
मुरतोऽनुनासिकस्य ।४।११५१॥ आत् परो योऽनुनासिकस्तदन्तस्य यडन्तस्य द्वित्वे 'पूर्वस्य मुरन्तः' स्यात् । बम्भण्यते । अत इति किम् ? तेतिम्यते । अनुनासिकस्येति किम् ? पापच्यते ॥५१॥
जप-जभ-दह-दश-मन-पशः ।४।११५२॥ एषां यजन्तानां द्वित्वे 'पूर्वस्य मुरन्तः' स्यात् । जजप्यते, जञ्जभ्यते, दन्दह्यते, दन्दश्यते, बम्भज्यते, पम्पश्यते ॥५२॥
चर-फलाम् ।४।११५३॥ एषां यङन्तानां द्वित्वे 'पूर्वस्य मुरन्तः' स्यात् । चञ्चूर्यते, पम्फुल्यते ॥५३॥
ति चोपान्त्याऽतोऽनोदुः ।।११५४॥ यजन्तानां चर-फलां तादौ च प्रत्यये 'उपान्त्यस्याऽत उ: स्यात्, न च तस्यात् । चञ्यूर्यते, पम्फुल्यते, चूर्तिः, प्रफुल्लिः । अत इति किम् ? चञ्चार्यते, पम्फाल्यते । अनोदिति किम् ? चंचूर्ति, पम्फुल्ति ॥५४॥
ऋमतां रीः ।४।११५५॥ ऋमतां यजन्तानां द्वित्वे 'पूर्वस्य रीरन्तः' स्यात् । नरीनृत्यते ॥५५॥
रि-रौ च लुपि ४११५६॥ ऋमतां यो लुपि द्वित्वे 'पूर्वस्य रि-रौ रीश्चान्तः' स्यात् । चरिकर्ति, चर्कर्ति, चरीकर्ति ॥५६॥
निजां शित्येत् ।।४।११५७॥ निजि-विजि-विषां शिति द्वित्वे 'पूर्वस्यैत्' स्यात् । नेनेक्ति, वेवेक्ति, वेवेष्टि । शितीति किम् ? निनेज ॥५७॥