________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१९५ स्वरान्ताद् दुहेश्चानन्तरोक्ते कर्तरि 'जिच् वा' स्यात् । अकृत अकारि वा कटः स्वयमेव; अदुग्ध अदोहि वा गौः स्वयमेव ॥९०॥
तपः कर्चनुतापे च ।३।४।९१॥ तपेः कर्मकर्तरि कर्तर्यनुतापे चार्थे 'जिच् न' स्यात् । अन्ववातप्त कितवः स्वयमेव, अतप्त तपांसि साधुः, अन्वतप्त चैत्रेण, अन्ववातप्त पापः स्वकर्मणा । कर्चनुतापे चेति किम् ? अतापि पृथिवी राज्ञा ॥९१॥
णि-स्नुश्यात्मनेपदाऽकर्मकात ।३।४।९२॥ ण्यन्तात् स्तुश्रिभ्यामात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्तरि 'जिच् न' स्यात् । अपीपचदोदनं चैत्रेण मैत्रः, अपीपचतौदनः स्वयमेव; प्रास्नोष्ट गौः स्वयमेव; उदशिश्रियत दण्डः स्वयमेव; व्यकृत सैन्धवः स्वयमेव ॥१२॥
भूषार्थ-सन्-किरादिभ्यश्च जि-क्यौ ।३।४।९३॥ भूषार्थेभ्यः, सनन्तेभ्यः, किरादिभ्यो ण्यादिभ्यश्च कर्मकर्तरि ‘जिक्यौ न' स्याताम् । अलमकृत कन्या स्वयमेव, अलंकुरुते कन्या स्वयमेव; सन्अचिकीर्षिष्ट, चिकीर्षते वा कटः स्वयमेव; किरादिः - अकीट, किरते वा पांसुः स्वयमेव, अगीट गिरते वा ग्रासः स्वयमेव; णि - कारयते कटः स्वयमेव, चोरयते गौः स्वयमेव; प्रस्नुते गौः स्वयमेव; श्रि - उच्छ्रयते दण्डः स्वयमेव; आत्मनेपदाकर्मकात् - विकुर्वते सैन्धवाः स्वयमेव ॥९३॥
करणक्रियया क्वचित् ।।४।९४॥ एकघाती पूर्वदृष्टया करणस्थया क्रियया एकाकर्मक्रिये कर्तरि 'जिक्यात्मनेपदानि स्युः क्वचित्' । परिवारयन्ते कण्टका वृक्षं स्वयमेव । क्वचिदिति किम् ? साध्वसिश्छिनत्ति ॥९४॥