SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १९४ श्रीसिद्धहेमचन्द्रशदानुशासनम् ॥ एकघातौ कर्मक्रिययैकाऽकर्मक्रिये ।३।४।८६॥ एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका - अभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य, तस्मिन् कर्तरि कर्मकर्तृरूपे 'धातोर्जिक्यात्मनेपदानि' स्युः । अकारि क्रियते करिष्यते वा कटः स्वयमेव । एकधाताविति किम् ? पचत्योदनं चैत्रः, सिध्यत्योदनः स्वयमेव । कर्मक्रिययेति किम् ? साध्वसिश्छिनत्ति । एकक्रिय इति किम् ? स्रवत्युदकं कुण्डिका, नवत्युदकं कुण्डिकायाः । अकमक्रिय इति किम् ? भिद्यमानः कुशूल: पात्राणि भिनत्ति ॥ पचि-दुहेः ।३।४८७॥ एकधातौ कर्मस्थक्रियया पूर्वदृष्टया अकर्मिकया सकर्मिकया वा, एकक्रिये कतरि कर्मकर्तृरूपे, आभ्याम् 'जिक्यात्मनेपदानि' स्युः । अपाचि पच्यते पक्ष्यते वा ओदनः स्वयमेव, अदोहि दुग्धे धोक्ष्यते वा गौः स्वयमेव, उदुम्बरः फलं पच्यते अपक्त वा स्वयमेव, दुग्धे अदुग्ध वा पयो धोक्ष्यते गौः स्वयमेव ॥८७॥ न कर्मणा जिन् ।३।४।८८॥ पचि-दुहिन्यां कर्मणा योगे अनन्तरोक्ते कर्तरि 'जिच् न' स्यात् । अपतोदुम्बरः फलं स्वयमेव, अदुग्ध गौः पयः स्वयमेव । कर्मणेति किम् ? अपाच्योदनः स्वयमेव । अनन्तरोक्ते कर्तरीत्येव- अपाचि उदुम्बरः फलं वायुना ॥८८॥ रुषः १३१४८९॥ रुधोऽनन्तरोक्ते कतरि 'जिच् न' स्यात् । अरुद्ध गौः स्वयमेव ॥८९॥ स्वर-दुहो वा ३१४९०॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy