________________
१९२
श्रीसिद्धहेमचन्द्रशदानुशासनम् ॥ किम् ? पच्यते । अनभ्य इति किम् ? अत्ति ॥७॥
दिवादेः श्यः ३१४७२॥ 'दिवादेः कर्तृविहिते शिति श्यः' स्यात् । दीव्यति, जीर्यति ॥७२॥ भ्रास-भ्लास-भ्रम-क्रम-कम-त्रसि-त्रुटि-लषि-यसि संयसेर्वा
३।४७३॥ एभ्यः कर्तरि विहिते शिति 'श्यो वा' स्यात् । भ्रास्यते, भासते; म्लास्यते, म्लासते; भ्राम्यति; प्रमति; क्राम्यति, कामति; काम्यति, कामति; त्रस्यति, वसति; त्रुट्यति, त्रुटति; लष्यति, लषति, यस्यति, यसति; संयस्यति, संयसति ॥७३॥
कुषि-रजेाप्ये वा परस्मै च ३३४७४॥ आभ्यां व्याप्ये कतरि शिद्विषये 'परस्मैपदं वा स्यात, तद्योगे च श्यः' । कुष्यति कुष्यते वा पादः स्वयमेव; रज्यति रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् ? कुष्णाति पादं रोगः । शितीत्येव- अकोषि ॥७४॥
स्वादेः श्नुः ।३।४७५॥ स्वादेः कर्तृविहिते शिति 'सूनुः' स्यात् । सुनोति, सिनोति ॥७५॥
वाऽक्षः ३१४७६॥ अक्षः कर्तृविहिते शिति 'श्नुर्वा' स्यात् । अक्ष्णोति, अक्षति ॥७६॥
तक्षः स्वार्थे वा ३।४७७॥ स्वार्थ:- तनुत्वम्, तवृत्तेस्तक्षः कर्तृविहिते शिति 'श्नुर्वा' स्यात् । तक्ष्णोति, तक्षति । स्वार्थ इति किम् ? संतक्षति शिष्यम् ॥७७॥
स्तम्भू-स्तुम्भू-स्कम्भू-स्कुम्भू-स्कोः ना च ।३।४७८॥ स्तम्म्यादेः सौत्राद् धातोः, स्कुगश्च कर्तृविहिते शिति 'श्नाः श्नुश्च' स्यात् ।