________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१९१ पद्यतेः कर्तर्यद्यतन्यास्ते परे 'जिच् स्याद्, निमित्ततस्य च लुक्' । उदपादि । त इति किम् ? उदपत्साताम् ॥६६॥
दीप-जन-बुधि-पूरि-ताय-प्यायो वा ।।४।६७॥ एम्यः कर्तर्यधतन्यास्ते परे 'जिच् वा स्यात्, तलुक् च' । अदीपि, अदीपिष्ट; अजनि, अजनिष्ट; अबोधि, अबुद्ध; अपूरि, अपूरिष्ट; अतायि, अतायिष्ट; अप्यायि, अप्यायिष्ट ॥६७॥
भाव-कर्मणोः ३३४६८॥ सर्वस्माद् धातोर्भाव-कर्मविहितेऽवतन्यास्ते 'अिच् स्यात्, तलुक् च' । आसि त्वया, अकारि कटः ॥६८॥ स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशीः-वस्तन्यां जिट् वा
४६९॥ स्वरान्ताद् ग्रहादेश्च विहितासु भावकर्मजासु स्य-सिजाशी:- श्वस्तनीषु 'जिट वा' स्यात् । दायिष्यते, दास्यते; अदायिषाताम्, अदिषाताम्; दायिषीष्ट, दासीट; दायिता, दाता । ग्राहिष्यते, ग्रहीष्यते; अग्राहिषाताम्, अग्रहीषाताम्; ग्राहिषीष्ट; ग्रहीषीट; ग्राहिता, ग्रहीता । दर्शिष्यते, द्रक्ष्यते; अदर्शिषाताम्, अदृक्षाताम्, दर्शिषीष्ट, दृक्षीट; दर्शिता, द्रा । घानिष्यते, हनिष्यते; अघानिषाताम्, अवधिषाताम् धानिषीट, वधिषीट; घानिता, हन्ता ॥६९॥
क्यः शिति ।३४७०॥ 'सर्वस्माद् धातोर्माव-कर्मविहिते शिति क्यः' स्यात् । शय्यते त्वया, क्रियते करः । शितीति किम् ? बभूवे ॥७०॥
कर्तर्यनद्भ्यः शब् ।३।४७१॥ अदादिवर्जाद् धातोः कतरि विहिते शिति 'शव्' स्यात् । भवति । कर्तरीति