________________
१५०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
ङ्यः ।३।२।६४॥ झ्यन्तायाः परतः स्त्रियास्तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्थेषु 'इस्वः' स्यात् । गौरितरा, गौरितमा, नर्तकिरूपा, कुमारिकल्पा, ब्राह्मणिब्रुवा, गार्गिचेली, ब्राह्मणिगोत्रा, गार्गिमता, गौरिहता ॥६४॥
भोगवद्-गौरिमतोनाम्नि ३।२६५॥ अनयो यन्तयोः संज्ञायां तरादिषु प्रत्ययेषु ब्रुवादौ चोत्तरपदे एकार्थे 'हस्वः' स्यात् । भोगवतितरा, गौरिमतितमा, भोगवतिरूपा, गौरिमतिकल्पा, भोगवतिब्रुवा, गौरिमतिचेली, भोगवतिगोत्रा, गौरिमतिमता, भोगवतिहता । नाम्नीति किम् ? भोगवतितरा, भोगवत्तरा, भोगवतीतरा ॥६५॥
नवैकस्वराणाम् ।।२।६६॥ एकस्वरस्य ड्यन्तस्य तरादौ प्रत्यये हृवादी चोत्तरपदे स्त्र्येकार्थे 'या इस्वः' स्यात् । स्त्रितरा, स्त्रीतरा; ज्ञितमा, जीतमा, ज्ञिब्रुवा, जीब्रुवा । एकस्वराणामिति किम् ? कुटीतरा ॥६६॥
ऊङः ।३।२।६७॥ ऊन्तस्य तरादौ ब्रुवादी चोत्तरपदे स्त्र्येकार्थे 'वा इस्वः' स्यात् । ब्रह्मबन्धुतरा, बह्मबन्धूतरा; कद्रुब्रुवा, कद्रूबुवा ॥६७॥
महतः कर-घास-विशिष्टे डाः ।।२।६८॥ करादावुत्तरपदे 'महतो डा वा' स्यात् । महाकरः, महत्करः; महाघासः, महद्घासः; महाविशिष्टः, महद्विशिष्टः ॥६८॥
स्त्रियाम् ।।२।६९॥ स्त्रीवृत्तेर्महतः करादावुत्तरपदे 'नित्यं डाः' स्यात् । महाकरः, महाघासः, महाविशिष्टः ॥६९॥