________________
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
१४९
चौ क्वचित् ।३।२।६०॥ परतः स्त्र्यनूङ् 'च्चौ क्वचित् पुम्वत्' स्यात् । महद्भूता कन्या । क्वचिदिति किम् ? गोमतीमूता ॥६॥
सर्वादयोऽस्यादौ ।३।२।६१॥ 'सर्वादिः परतः स्त्री, पुम्वत्' स्यात्, न तु स्यादौ । सर्वस्त्रियः, भवत्पुत्रः । अस्यादाविति किम् ? सर्वस्यै ॥६१॥
मृगक्षीराऽऽदिषु वा ।३।२६२॥ एषु समासेषु परतः स्त्री उत्तरपदे 'पुम्वद् वा' स्यात् । मृगक्षीरम्, मृगीक्षीरम्; काकशावः, काकीशावः ॥२॥ ऋदित तर-तम-रूप-कल्प-ब्रुव-चेल-गोत्र-मत-हते वा
हस्वश्च ।३।२।६३॥ ऋदुदित् परतः स्त्री तरादिषु प्रत्ययेषु ब्रुवादी च स्त्र्येकार्थे उत्तरपदे 'ह्रस्वान्तः पुम्वच्च वा' स्यात् । पचन्तितरा, पचत्तरा, पचन्तीतरा; श्रेयसितरा, श्रेयस्तरा, श्रेयसीतरा । पचन्तितमा, पचत्तमा, पचन्तीतमा; श्रेयसितमा, श्रेयस्तमा, श्रेयसीतमा । पचन्तिरूपा, पचद्रूपा, पचन्तीरूपा; विदुषिरूपा, विद्वदूपा; विदुषीरूपा । पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा; विदुषिकल्पा, विद्वत्कल्पा, विदुषीकल्पा । पचन्तिब्रुवा, पचब्रुवा, पचन्तीब्रुवा; श्रेयसिब्रुवा, श्रेयोब्रुवा, श्रेयसीबुवा । पचन्तिचेली, पचच्चेली, पचन्तीचेली; श्रेयसिचेली, श्रेयश्चेली, श्रेयसीचेली । पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीगोत्रा; श्रेयसिगोत्रा, श्रेयोगोत्रा, श्रेयसीगोत्रा । पचन्तिमता, पचन्मता, पचन्तीमता; श्रेयसिमता, श्रेयोमता, श्रेयसीमता । पचन्तिहता, पचद्धता, पचन्तीहता; श्रेयसिहता, श्रेयोहता, श्रेयसीहता ॥३॥