________________
१२]
[ श्रीविचाररत्नाकरः किं च"लक्खणहीणो उवही, उवहणइणाणदंसणचरित्तं''[ इत्यादि । तदेवम्भूतमप्रायो ग्यंरोच्यमानं प्रशस्यमानं दीयमानमपि दात्रा नरोचते साधवे न कल्पत इत्यर्थः। इत्याचाराङ्गद्वितीयश्रुतस्कन्धपञ्चमाध्ययनप्रथमोद्देशके २३७ प्रतौ २२३ पत्रे॥१२॥
वस्त्रपरिकर्मणा साधूनामनुचितेति जिज्ञापयिषया लिख्यते
१ से भिक्खू वा भिक्खुणी वा अहेसणिज्जाई वत्थाइंजाइज्जा अहापरिग्गहियाई वत्थाई धारेज्जा नो धोएज्जा नोरएज्जा नो धोअरत्ताई वत्थाई धारेज्जा अपलीउंचमाणे गामंतरेसु ओमचेलिए एतं खलु वत्थधारिस्स सामग्गियं" इति । वृत्तिर्यथा-'से भिक्खू' इत्यादि स भिक्षुर्यथैषणीयान्यपरिकर्माणि वस्त्राणि याचेत यथा परिगृहीतानि च धारयेन्न तत्र किञ्चित् कुर्यादिति दर्शयति । तद्यथा-न तद्वस्त्रं गृहीतं सत्प्रक्षालयेन्नाऽपि रञ्जयेत्तथा नाऽपि बाकुशिकतया धौतरक्तानि धारयेत्तथाभूतानि न गृह्णीयादित्यर्थः । तथाभूताधौतरक्तवस्त्रधारी च ग्रामान्तरे गच्छन् 'अपलिउंचमाणे'त्ति अगोपयन् सुखेनैव गच्छेद्यतोऽसाववमचेलिकोऽसारवस्त्रधारीत्येतत्तस्य भिक्षोर्वस्त्रधारिणः समगा यसंपूर्णो भिक्षुभावो । यदेवम्भूतवस्त्रधारणमित्येतच्च सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यम् । वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धम् ।इत्याचाराङ्गद्वितीयश्रुतस्कन्धपञ्चमाध्यनद्वितीयोद्देशके २३७ प्रतौ २२५ पत्रे ॥१३॥
केचिद्दण्डकग्रहणमनागमिकमिति वदन्ति तच्चासत, राद्धान्ते दण्डकग्रहणस्य स्पष्टमुक्तत्वात् । न च वाच्यं कारणिकोऽयं विधिग्र्लानादीनां नाशेषाणामिति, तथात्रानुक्तत्वात् । न च वाच्यं छत्रकवदस्याऽपि कारणिकता भावनीया, इहैवाऽग्रे वक्ष्यमाणेषु भिगवतसू त्राक्षरेषु "हे आयुष्मन् ! एको दण्डकस्त्वया ग्राह्योऽन्ये सार्मिकेभ्यो देया" [ ]इत्यत्र सर्वेषां ग्लानादिकताकल्पनस्याऽनुचितत्वात् । अत्रैवसूत्रकृताङ्गतरङ्गे "पाणहाउ य छत्तं च''[ सूय./अ.९ गा.१८ ]इत्यादिना छत्रकनिषेधवद्दण्डकनिषेधस्य कुत्राऽप्यश्रूयमाणत्वाच्चालं कल्पनया। सिद्धान्त एव प्रमाणम् । स चाऽयं लिख्यते
२"समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं नो करिस्सामीति समुट्ठाए, सव्वं भंते ! अदिण्णादाणं पच्चक्खामि । से अणुपविसित्ता गाम वा जावरायहाणि वा नेव सयं अदिन्नं गिण्हेज्जा, नेवन्नेणं
१. आचा. श्रु.२/चू.१/अ.५/उ. २-४८३ सू. । २. आचा. श्रु.२/चू.१/अ.७/उ. १-४८९ सू. ।
D:\ratan.pm5\5th proof