________________
श्रीविचाररत्नाकरे प्राच्यतटे प्रथमस्तरङ्गः]
[११ एकवचनं वृक्षः १ द्विवचनं वृक्षौ २ बहुवचनं वृक्षाः ३ इति । स्त्रीवचनं वीणा कन्या इत्यादि ४। पुंवचनं घटः पट इत्यादि ५। नपुंसकवचनं पीठं देवकुलमित्यादि ६। अध्यात्मवचनं आत्मन्यधि अध्यात्म हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७। उपनीतवचनं प्रशंसावचनं यथा रूपवती स्त्री ८। तद्विपर्ययेणापनीतवचनं, यथेयं रूपहीनेति ९। उपनीतापनीतवचनं कश्चिद् गुणः प्रशस्यः कश्चिन्निन्द्यः, यथा रूपवतीयं स्त्री किं त्वसद्वृत्तेति १०। अपनीतोपनीतवचनं यथाऽरूपवती कुरूपा स्त्री किं तु सद्वृत्तेति ११। अतीतवचनं कृतवान् १२। वर्तमानवचनं कोति १३। अनागतवचनं करिष्यति १४। प्रत्यक्षवचनमेष देवदत्तः १५। पोक्षवचनं स देवदत्तः १६। इत्येतानि षोडशवचनान्यमीषां च स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद्यावत् परोक्षवचनमेव ब्ब यात् ।इत्याचाराङ्गद्वितीयश्रुतस्कन्धचतुर्थभाषाध्ययनप्रथमोद्देशके २३७ प्रतौ २२१ पत्रे ॥११॥
निर्लक्षण उपधिनिदर्शनचारित्रोपघातकारित्वान्मुनिभिर्न रक्षणीय इत्यभिप्रायजिज्ञापयिषया लिख्यते
१ से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणिज्जा अप्पंडं जाव संताणगं अनलं अथिरं अधुवं अधारणिज्जं रोइज्जंतं न रोच्चइ तहप्पगारं वत्थं अप्फासुअं जाव नो पडिगाहेज्जा''इति । वृत्तिर्यथा-'से भिक्खू' इत्यादि स भिक्षुर्यत्पुनरेवम्भूतं वस्त्रं जानीयात्तद्यथा-अल्पाण्डं यावल्पसन्तानकं किं त्वनलमभीष्टकार्यासमर्थं हीनादित्वात्तथाऽस्थिरं जीर्णमध्रुवं स्वल्पकालानुज्ञापनात्तथाऽधारणीयमप्रशस्तदेशं खज्जनादिकलङ्काङ्कितत्वात्, तथा चोक्तम्
"चत्तारि देवया भागा, दुवे भागा य माणुसा। आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥१॥[वि.भा./३२८] देवेसु उत्तमो लाभो, माणुसेसु अ मज्झिमो। आसुरेसु अ गेलन्नं, मरणं जा रक्खसे" ॥२॥[वि.भा./३२९] । देव । असुर । देव । मनुष्य राक्षस मनुष्य देव । असुर । देव
इदं वस्त्रविभागयन्त्रम् ।
१. आचा. श्रु.२/चू.१/अ.५/उ. १-४८१ सू. ।
D:\ratan.pm5\5th proof