________________
श्रीविचाररत्नाकरःजीयासुर्जिनशासनोन्नतिकराः श्रीहीरसूरीश्वराः, सिद्धान्तोदधयः समाश्रिततटा रत्नार्थिभिर्धीवरैः । शिष्टाभीष्टरसाश्रया घनजना येभ्यो निपीतामृताः, गर्जन्तोऽप्यजडाशयाः प्रतिदिशं प्रीतिं समातन्वते ॥ तेषाम्छवयशःपरिमलपरिकलितसकलभुवनानाम् । हृदि गोत्रमन्त्रमित्रं निधाय कामितफलवदान्यम् ॥ अङ्गोपाङ्गाद्यागमतद्विवृत्तिप्रकरणादिदृष्टानाम् । रचयामि विचाराणां निचयं ग्रन्थेऽत्र रुचिराणाम् ॥
[विचाररत्नाकरे]