________________
w]
[श्रीविचाररत्नाकरः परिमाणं कीरड्" [ ] इति । भणियं 'पत्तेयबुद्धा वि तत्तिया चेव'त्ति । चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए । आयरिओ आह-तित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा हवंति ॥ अन्ये पुनरेवमाहुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति । 'से तं' इत्यादि, तदेतत् कालिकम् , तदेतदावश्यव्यतिरिक्तमिति ॥१३५॥ इति श्रीगच्छाचारप्रकीर्णकावचूर्णौ ॥३४। पत्रे ॥१४॥
उत्कृष्टा चैत्यवन्दना ऐर्यापथिकीप्रतिक्रमणपूर्विकैव भवति । जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकीप्रतिक्रमणमन्तरेणाऽपि भवतः । इति प्रवचनसारोद्धारे चैत्यवन्दनद्वारवृत्तौ [ नवकारेण जहन्ना गा.९२ वृत्तौ ] ॥१५॥
अथ साधर्मिकवात्सल्यप्रभावनाऽक्षराणि लिख्यन्तेनिस्संकिय १, निक्कंखिय २, निव्वितिगिच्छा ३, अमूढदिट्ठी य ४ ।
उववूह ५ थिरीकरणे ६, वच्छल्ल ७, पभावणे ८, अट्ठ ॥३१॥ शङ्कितं-देशसर्वात्मकं, तदभावो निःशङ्कितम् १, काङ्कितं-अन्यान्यदर्शनग्रहात्मकं, तदभावो निष्काङ्क्षितम् २, विचिकित्सा-फलं प्रतिसन्देहस्तदभावो विदो-विज्ञास्ते च तत्त्वतः साधव एव तज्जुगुप्सा वा तदभावो निर्विचिकित्सितं, निर्विजुगुप्सां वा ३, आर्षत्वात् सूत्र एवं पाठः, अमूढा-ऋद्धिमत्कुतीर्थकदर्शनेऽप्यवगीतमस्मद्दर्शनमिति मोहरहिता चासौ दृश्चिश्च-बुद्धिरूपा अमूढदृष्टिः ४, स च चतुर्विधोऽप्ययमान्तर आचारः । बाह्यं त्वाह-उपबृंहणा-गुणवतां स्तुतिः ५, स्थिरीकरणं चाङ्गीकृतधर्मानुष्ठानं प्रति सीदतां स्थिरीकरणम् ६, वात्सल्यं-साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणम् ७, प्रभावना च-स्वतीर्थोन्नतिहेतुचेष्टा सुप्रवर्त्तनात्मिका ८, वात्सल्यप्रभावेन अष्टौ एते दर्शनाचाराः स्युरिति शेषः । इति श्रीअष्टाविंशोत्तराध्ययने एकत्रिंशत्तमगाथायाम् ॥१६॥
एतेन प्रतिमापूजनादिकं सजन्तुविराधनं कर्म भगवान्न समादिशतीति यत्केचन प्रलपन्ति तेऽपि परास्ता द्रष्टव्याः, सदारम्भस्य भगवद्भिः प्रतिपादितत्वात् , इतरथा उक्तस्यापि साधर्मिकवात्सल्यस्य निषिद्धत्वापत्तेविराधनायास्तुल्यत्वादिति ।
__केचिच्च देवगुर्वादिपुरतः स्वस्तिकादिरचनां न स्वीकुर्वते तेऽज्ञानिनो वेदितव्याः । यतः साधुस्तान्यर्चनवन्दनादीनि मनसाऽपि न प्रार्थयेत् । गृहस्थैस्तु गुरुभक्त्या तानि कर्तव्यान्येव अन्यथा तत्रैवोक्तानां क्रियमाणानां च वन्दनादीनामप्यकर्त्तव्यतापत्तेः । अक्षराणि चेमानि
D:\ratan.pm5\5th proof