________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[२९९ यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि । तथा चतुर्दशप्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः । इयमत्र भावना-इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन् , ततः प्रकीर्णकरूपाणि चाध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्यभवन् कथम् ? इति चेत् , उच्यते इह यद्भगवदर्हदुपदिष्टं श्रुतमनुश्रित्य भगवन्तः श्रमणा विरचयन्ति तत् सर्वं प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्वं प्रकीर्णकम् , भगवतश्च ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदासीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि, एवं मध्यमतीर्थकृतामपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि । भगवतस्तु वर्द्धमानस्वामिनश्चतुर्दशश्रमणसहस्राणि, तेन प्रकीर्णकान्यपि भगवतश्चतुर्दशसहस्राणि । अत्र द्वे मते-एके सूरय एवं प्रज्ञापयन्ति-इदं किल चतुरशीतिसहस्रादिकमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्यश्रमणा प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिकाले आसीरन् , अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं प्रवाहतः पुनरेकैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धास्तद्ग्रन्था अतीतकालिका अपि तीर्थे वर्तमानास्तेऽत्राधिकृता द्रष्टव्याः । एतदेव मतान्तरमुपदर्शयन्नाह'अहवा' इत्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्या औत्पत्तिक्या १ वैनयिक्या २ कर्मजया ३ पारिणामिक्या ४ चतुर्विधया बुद्ध्योपेता:समन्विता आसीरन् , तस्य ऋषभादेस्तावन्ति प्रकीर्णकसहस्राणि, प्रत्येकबुद्धा अपि तावन्त एव । अत्रैके व्याचक्षते-इहैकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात् , केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात् , स्यादेतत्-प्रत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतदसमीचीनम् । यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्थ:-"इह तित्थे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणत्तणओ, किं तु इह सुत्ते पत्तेयबुद्धपणीयं पइण्णगं भाणियव्वं । कम्हा जम्हा पइण्णगपरिमाणेण चेव पत्तेयबुद्ध
D:\ratan.pm5\5th proof