________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[२९७ तत्र स्वान्ययोः प्रवर्तकस्तम् । तथा पीठकं-फलकं, आदिशब्दात् पट्टिकादयस्तत्र प्रतिबद्धः कारणं विनाऽपि ऋतुबद्धकाले तत्परिभोजीत्यर्थः तं, ऋतुबद्धकाले पीठकादिग्रहणे महान् दोषः । उक्तं च-"जे भिक्खू उडुबद्धियं सेज्जासंथारयं परंपज्जोसवणाओ उवाइणेइ उवाइणेतं वा सातिज्जति" ॥[नि.सू./१०८ ] इति । निशीथसूत्रद्वितीयोद्देशके । अथैतच्चूर्णिःउडुबद्धगहियं सेज्जासंथारयं पज्जोसवणरातीओ परं उवातिणावेइ तस्स मासलहु पच्छित्तं ।।
सेज्जासंथारविशेषज्ञापनार्थमाह"सव्वंगिया उ सेज्जा, दोहत्थद्धं च होइ संथारो ।
अहसंथडा व सेज्जा, तप्पुरिसो वा समासो उ" ॥१॥[नि.भा./१२१७] इत्यादि । इति श्रीगच्छाचारप्रकीर्णकवृत्तौ ॥१२॥
__ अथोत्सर्गतस्तावद्गृहस्थानां सिद्धान्ताध्ययनं न कल्पते, अपवादतस्तु दीक्षाभिमुखादिस्तस्य षट्जीवनिकायाध्ययनं यावत् सूत्रार्थाभ्यां, पिण्डैषणाध्ययनं यावदर्थतश्च पाठयितुं कल्पते, इत्यभिप्रायो लिख्यते
पढंतु साहूणो एयं, असज्झायं विवज्जिलं ॥१३६॥ इत्यादि । व्याख्यापठन्तु-व्यक्तवाचा सूत्रतोऽर्थतश्च कण्ठगतं कुर्वन्तु साधवो-मोक्षसाधनतत्परा मुनयः उपलक्षणत्वात् साध्व्योऽपि, ननु यदुक्तं साधुसाध्व्य एव पठन्ति किं श्राद्धादयो न सिद्धान्तं पठन्ति ? उच्यते-न पठन्त्येव, यदुक्तं-श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकप्रान्ते-"जे भिक्खू वा भिक्खूणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ, वाएंतं वा सातिज्जति" ॥ [नि.सू./१३५८] अस्य चूणिः-गिहिअण्णतित्थिया वा ण वाएयव्वा, इत्थ दसमउद्देसाओ अत्थो जहा अण्णउत्थियं वा गारत्थियं वा ण वाएति, अण्णतित्थिया अण्णतित्थिणीओ अहवा गिहत्था गिहत्थीओ ॥ त्ति । तथाभावे कारणे वाएज्जा वि "पव्वज्जाए" गाहा-[नि.भा./६२६४] [अस्य चूणिः-] गिहि अण्णपासंडियं पव्वज्जाभिमुहं सावगं वा छज्जीवणियं ति जाव सुत्तत्थो, अत्थओ जाव पिंडसेणा, एस गिहत्थाइसु अववाओ । त्ति । इति श्रीगच्छाचारप्रकीर्णकावचूर्णी प्रान्ते ॥१३॥
ननु प्रकीर्णकोक्तैर्वचनैः प्रतिपदमस्माकं निरासः क्रियते भवद्भिः, तेषां तु प्रामाण्यं नास्माभिः स्वीक्रियते, मैवं वावदूक ! प्रकीर्णकानां भगवत्स्वशिष्यप्रणीतत्वेन
D:\ratan.pm5\5th proof