________________
स]
[श्रीविचाररत्नाकरः सदैव सौवीरकूरमात्रभोजिन: सेवार्त्तसंहननास्ततो यदि तेऽपीत्थं यापयन्ति यावज्जीवं तर्हि तथा सौवीरकूरमात्रभोजनेन किं न यतयो मोक्षगमनैकबद्धकक्षा यापयन्ति ? तैः सुतरामेव यापनीयम् , प्रभूतगुणसम्भवात् । गुरुराह
“तिअ सीअं समणाणं, तिअमुण्हं गिहीण तेणणुन्नायं ।
तक्काईणं गहणं, कट्टरमाईसु भइयव्" ॥१॥ [ ] त्रिकं वस्तुत्रयं श्रमणानां शीतं भवति, तेन प्रतिदिवसमाचाम्लकरणे तक्राद्यभावत आहारपाकासम्भवेनाजीर्णादयो दोषाः प्रादुष्यन्ति । तदेव त्रिकमुष्णं गृहिणाम् , तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाकभावतो नाजीर्णादिदोषा जायन्ते, ततस्तेषां तथायापयतामपि न कश्चिद्दोषः । साधूनां तूक्तनीत्या दोषस्तेन कारणेन तक्रादिग्रहणं साधुनामनुज्ञातम् । इह प्रायो यतिना विकृतिपरिभोगपरित्यागेन सदैवात्मशरीरं यापनीयं कदाचिदेव च शरीरस्यापाटवे संयमयोगवृद्धिनिमित्तबलाधानाय विकृतिपरिभोगः । तथा चोक्तं सूत्रे-"अभिक्खणं निम्विगइगया य' [ ] त्ति । निर्विकृतिपरिभोगे च तक्राद्येवोपयोगीति तक्रादिग्रहणम् । कट्ठरादिषु-घृतवटिकोन्मिश्रतीमनादिषु ग्रहणं भाज्यं-विकल्पनीयं, ग्लानत्वादिप्रयोजनोत्पत्तौ कार्यं न शेषकालमिति भावः । तेषां च बहुलेपत्वात् , गृद्ध्यादिदोषजनकत्वाच्च । अथ किं तत्रिकम् ? उच्यते-आहारः, उपधिः, शय्या । एतानि त्रीण्यपि गृहिणां शीतकालेऽप्युष्णानि भवन्ति, तेन तेषां तक्रादिग्रहणमन्तरेणापि बाह्याभ्यन्तरोष्णतापेनाहारो जीर्यते, तत्राभ्यन्तरे भोजनवशात् , बाह्यः शय्योपधिवशात् । एतान्येवाहारोपधिशय्यारूपाणि त्रीणि वस्तूनि यतीनां ग्रीष्मकालेऽपि शीतानि भवन्ति । तत्राहारस्य शीतता भिक्षाचर्यायां प्रविष्टस्य बहुगृहेषु स्तोकस्तोकलाभेन बृहद्वेलालगनात् । उपधेरेकवारं वर्षाकालादर्वाग् प्रक्षालनेन मलिनत्वात् । शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन तेन कारणेन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्भवरूपेणोपहन्यते जाठरोऽग्निः । तस्माच्चाग्न्युपघातादजीर्णबुभुक्षामान्द्यादयो दोषा जायन्ते, ततस्तक्रादिग्रहणं साधूनामनुज्ञातम् । तक्रादिनाऽपि हि जाठरोऽग्निरुद्दीप्यते, तेषामपि तथास्वाभाव्यात् । इति श्रीयतिजीते ६१ गाथावृत्तौ ४९ पत्रे ॥५॥
__ अथाजातश्मश्रुणः शिष्यादेराचारप्रकल्पाध्ययनं पाठयितुं न कल्पते, इत्यभिप्रायो लिख्यते
D:\ratan.pm5\5th proof