________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[२९१ तथा भक्तपरिज्ञायामपि
जइ सो वि सव्वविरई कयाणुराओ विसुद्धमणकाओ। छिन्नसयणाणुराओ, विसयकसाया विरत्तो य ॥१॥ संथारगपव्वज्जं, पडिवज्जइ सो वि नियमनिरवज्जं ।
सव्वविरइप्पहाणं, सामइयचरित्तमारुहइ ॥२॥गाथा ३२॥३३॥ अथ साधुभिः प्रायो लेपकृद्वस्तु न ग्राह्यमित्यक्षराणि लिख्यन्ते
चउलहुयं लहइ मुणी, लित्ते दहिमाइलित्तकरमत्ते ।
छड्डियमिह पुढवाईसु, अणंतरपरंपरं ति दुहा ॥६१॥ इह दधिक्षीरघृततैलतीमनादिद्रव्यस्य यस्य लेपः करभाजनादौ लगति तल्लेपकृत् लिप्तमुच्यते, तच्च कारणं विना न ग्राह्यम् । यदाह
"घित्तव्यमलेवकडं, लेवकडे मा हु पच्छकम्माइ ।
न य रसगेहिपसंगो, न य भुत्ते बंभपीडा य" ॥ [पि.नि./६१३] इह साधुना सदैवालेपकृतल्लचणककुल्माषशुष्कौदनादि ग्रहीतव्यम् । मा भूवन् लेपकृति ग्राह्यमाणे पश्चात्कर्मादयो दोषाः-दध्यादिलिप्तहस्तादिक्षालनादिरूपाः । न च सदैवालेपकृद्ग्रहणे रसगृद्धिप्रसङ्गो-रसाभ्यवहारलाम्पट्यवृद्धिप्रसक्तिः । न च तादृशे भुक्ते ब्रह्मपीडा-ब्रह्मव्रतस्य बाधा । तादृशस्य नीरसाहारस्य दर्पोत्पादकत्वाभावात् । अत्राहचोदक:-ननु यदि लेपकृद्ग्रहणे पश्चात्कर्मप्रभृतयो दोषा भवन्ति ततस्तन्न गृह्यते तर्हि मा कदाचनापि साधुर्भुक्ताम् । एवं सर्वेषां दोषाणां मूलत एवोत्थानं निषिद्धं भवति । गुरुराहसर्वकालं क्षपणमेव कुर्वतः साधोश्चिरकालभावितपोनियमसंयमानां हानिर्भवति, तस्माद्यावज्जीवक्षपणं न कार्यम् , पुनः प्राह-यदि सर्वकालं क्षपणं कर्तुमशक्तस्तर्हि षण्मासक्षपणं कृत्वा पारणकमलेपकता विधत्ताम् । गुरुराह-यद्येवं तपः कर्वन संयमयोगान् कर्तुं शक्नोति तर्हि करोतु , न कोऽपि तस्य निषेधः । पुनरप्याह-यदि षण्मासक्षपणं कर्तुं न शक्नोति तहि एकदिनोनं षण्मासक्षपणं कृत्वा आचाम्लेन पारयतु , एवमेकैकेन(कया) दिनहान्या तावदात्मानं तोलयेद्यावच्चतुर्थं कृत्वा आचाम्लेन पारणं करोतु , एवमप्यसामर्थ्य दिवसे दिवसे गृहीत्वाचाम्लनिर्लेपम् । गुरुराह-करोत्वेवं तपः, यदि प्रत्युपेक्षणादिसंयमयोगभ्रंशो न भवति, केवलं सम्प्रति सेवार्त्तसंहनानां नास्ति तादृशी शक्तिरिति न तथोपदेशो विधीयते । पुनः परः प्राह-ननु महाराष्ट्र-कोसलदेशोद्भवाः
D:\ratan.pm5\5th proof