________________
[श्रीविचाररत्नाकरः णाणी कम्मस्स खयट्ठमुट्ठिओऽणुट्ठिओ अ हिंसाए।
जयइ असढं अहिंसत्थमुट्ठिओ अवहओ सो उ॥१०६९॥ ‘णाणी' ज्ञानमस्यास्तीति ज्ञानी-सम्यग्ज्ञानयुक्तः कर्मक्षयार्थमुत्थित उपयुक्तो हिंसायां च न स्थितः । तथा यतते-कर्मक्षयार्थं प्रयत्नं करोति शठभावरहितो यत्नं करोति न पुनर्मिथ्याभावेन, सम्यग्ज्ञानयुक्त इत्यर्थः । तथा अहिंसार्थमुत्थितः-उद्यतः, किन्तु सहसा कथमपि यत्नं कुर्वतोऽपि प्राणिवधः सञ्जातः स एवंविधोऽवधकः साधुः ॥१०६९॥
तस्स असंचेअयओ, संचेययओ अ जाणि सत्ताणि ।
जोगं पप्प विणस्संति, णत्थि हिंसाफलं तस्स ॥१०७०॥ 'तस्स' तस्येव प्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्यद्यतस्यास तयतः अजानानस्य किं सत्त्वानि कथं प्रयत्नवतोऽपि कथमपि न दृष्टः प्राणी व्यापादितश्च, तथा सञ्चेतयतः कथमस्त्यत्र प्राणी ज्ञातो दृष्टश्च न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः ततस्तस्यैवंविधस्य यानि सत्त्वानि योगं कायादिव्यापारं प्राप्य विनश्यन्ति, तत्र तस्य नास्ति साधोहिंसाफलं साम्परायिकं संसारजननम् । यदि परमीर्यापथप्रत्ययं कर्म भवति तदैकत्र समये बद्धमन्यत्र क्षपयति ॥१०७०॥ इति श्रीओघनियुक्तिसूत्रवृत्तौ ॥१६॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीमूलसूत्रविचारसमुच्चयनाम्नी
द्वादशाकलिका समाप्ताः ॥१२॥
अनेकसिद्धान्तविचाररत्नारम्ये गुरूपासनमार्गलभ्ये। विचाररत्नाकरनामशास्त्रे, प्राप्तः समाप्ति किल मध्यभागः ॥१॥
॥समाप्तश्चायं मध्यभागः॥
D:\ratan.pm5\5th proof