________________
श्रीविचाररत्नाकरे मध्यभागे तृतीयस्तरङ्गः]
[१३९ मन्तरं जघन्यत उत्कर्षतश्च वक्तव्यम् । अनुत्तरोपपातिक-कल्पातीतदेवपुरुषस्य जघन्यतोऽन्तरं वर्षपृथक्त्वम् , उत्कर्षत: सङ्ख्येयानि सागरोपमाणि सातिरेकाणि, तत्र सङ्ख्येयानि सागरोपमाणि तदन्यवैमानिकेषु सङ्ख्येयवारोत्पत्त्या सातिरेकाणि मनुष्यभवैः । तत्र सामान्याभिधानेऽप्येतदपराजितान्तमवगन्तव्यम् , सर्वार्थसिद्धेः सकृदेवोत्पादतस्तत्रान्तरासम्भवात् । अन्ये त्वभिदधति-भवनवासिन आरभ्य आईशानादमरस्य जघन्यतोऽन्तर्मुहूर्त्तम् । सनत्कुमारादारभ्यासहस्रारान्नवदिनानि । आनतकल्पादारभ्याच्युतकल्पं यावन्नवमासाः । नवसु ग्रैवेयकेषु सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तरविमानेषु च नववर्षाणि । ग्रैवेयकान् यावत् सर्वत्रापि उत्कर्षतो वनस्पतिकालः । विजयादिषु चतुर्यु महाविमानेषु द्वे सागरोपमे । उक्तं च
"आईसाणादमरस्स, अंतरं हीणयं मुहुत्तंतो ।
आसहसारे अच्चुय-णुत्तरदिणमासवासनव" ॥१॥ [ जी. २/६३वृ.] "थावरकालुक्कोसो, सव्वढे बीयओ न उववाओ । दोअयरा विजयाइसु" [जी. २/६३व.] इति श्रीजीवाभिगमसूत्रवृत्तौ द्वितीयप्रतिपत्तौ २६४ प्रतौ ४३ पत्रे ॥१॥ ___ अथ यैः कारणैर्नारकाणां सातोदयो भवति तानि लिख्यन्ते
उववाएण व सायं, नेइओ देवकम्मुणा वावि ।
अज्झवसाणनिमित्तं, अहवा कम्माणुभावेणं ॥१॥ इति । वृत्तिर्यथा-'उववाएण' इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले सात-सातवेदनीयकर्मोदयं कश्चिद्वेदयते यः प्राग्भवे दाघच्छेदादिव्यतिरेकेण मरणमुपगतोऽनतिसंक्लिष्टाध्यवसायी समुत्पद्यते, तदानीं हि न तस्य प्राग्भवानुबद्धं आधिरूपं दुःखं नापि क्षेत्रस्वभावजं नापि परमाधार्मिककृतं, नापि परस्परोदीरितम् , तत एवंविधदुःखाभावादसौ सातं वेदयते, इत्युच्यते ॥१॥ 'देवकम्मणा वावि' इति देवकर्मणा पूर्वसाङ्गतिकदेवप्रयुक्तया क्रियया, तथाहि-गच्छति पूर्वसाङ्गतिको देवः पूर्वपरिचितस्य नैरयिकस्य वेदनोपशमनार्थं यथा बलदेवः कृष्णवासुदेवस्य, स च वेदनोपशमो देवकृतो मनाक्कालमात्र एव भवति तत उर्ध्वं नियमात् क्षेत्रस्वभावजा अन्या वा वेदनाः प्रवर्त्तन्ते, तथास्वाभाव्यात् ॥२॥ 'अज्झवसाणनिमित'मिति अध्यवसायनिमित्तं सम्यक्त्वोत्पादकाले, तत उर्ध्वं कदाचित्तथाविधविशिष्टशुभाध्यवसायप्रत्ययं कश्चिन्नैरयिको बाह्यक्षेत्र
१. जीवा./३प्र./न.-उ.३/१२३सू. ।
D:\ratan.pm5\5th proof