________________
श्रीविचाररत्नाकरे मध्यभागे
॥ तृतीयस्तरङ्गः ॥ सुमनःसन्ततिसेव्या, रसरुचिरा प्रोच्चगोत्रसंभूता ।
विमलीकृतजननिवहा, जिनवाणी जयति गङ्गेव ॥१॥ अथ क्रमायाताः श्रीजीवाभिगमविचारा यथादेवभवाच्च्युत्वा पुनरपि यावता कालेन देवः स्यात्ताल्लिख्यते
'देवपुरिसस्स णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो जहणणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो । आणतदेवपुरिसस्स णं भंते ! केवतिअं कालं अंतरं होइ ? गोयमा ! जहन्नेणं वासपुहत्तं उक्कोसेणं वणस्सतिकालो, एवं जाव गेवेज्जदेवपुरिसस्स वि, अणुत्तरोववातियदेवपुरिसस्स जहन्नेणं वासपुहुत्तं उक्कोसेणं संखेज्जाइं सागरोवमाइं साइरेगाइं इति । वृत्तिर्यथा-'देवपुरिसस्स णं भंते !' इत्यादि, देवपुरुषस्य भदन्त ! कालतः कियच्चिरं अन्तरं भवति ? भगवानाहगौतम ! जघन्येनान्तर्मुहूर्तं देवभवाच्च्युत्वा गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमाप्त्यनन्तरं तथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसंभवात् , उत्कर्षतो वनस्पतिकालः । एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यावत्सहस्त्रारकल्पदेवपुरुषस्यान्तरम् , आनतकल्पदेवस्यान्तरं जघन्येन वर्षपृथक्त्वं कस्मादेतावदिहान्तरमिति चेदुच्यते-इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः शुभाध्यवसायोपेतो मृतः सन् आनतकल्पादारतो ये देवास्तेषूत्पद्यते, नानतादिषु तस्य तावन्मात्रकालस्य तद्योग्याध्यवसायविशुद्ध्यभावात् , ततो य आनतादिभिश्च्युतः सन् भूयोऽप्यानतादिघुत्पत्स्यते सनियमाच्चारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वर्षपृथक्त्वं, उत्कर्षतो वनस्पतिकालः । एवं प्राणतारणाच्युतकल्पग्रैवेयकदेवपुरुषाणामपि प्रत्येक
१. जीवा./२प्र./६३सू. ।