________________
[ श्रीविचाररत्नाकरः अन्नउत्थियपरिग्गहियाइं अरिहंतचेयाइं वा वंदित्तए वा नमंसित्तए वा पुट्वि अणालत्तेणं आलवित्तए वा संलवित्तए वा [ कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्तए वा] तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं, कप्पइ मे समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछएणं पीढफलगसिज्जासंथारएणं ओसहभेसज्जेण य पडिलाभेमाणस्स विहरित्तए त्तिकट्ट इमं एयारूवं अभिग्गहं अभिगिन्हइ अभिगिन्हित्ता पसिणाई पुच्छइ पुच्छित्ता अट्ठाई आदियति आदियत्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ" इति । वृत्तिर्यथा-'नो खल्' इत्यादि, नो खलु मम भदन्त ! भगवन् ! कल्पते-यज्यते अद्य प्रभति-इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य नितिचारसम्यक्त्वपरिपालनार्थं तद्यतनामाश्रित्य 'अन्नउत्थिए व' त्ति जैनयूथाद्यदन्यत् यूथं सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्ति येषां तेऽन्ययूथिकाश्चरकादिकुतीथिकाः तान्, अन्ययूथिकदैवतानि वा हरिहादीनि, अन्ययूथिकपरिगृहीतानि वार्हच्चैत्यानि-अर्हत्प्रतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दितुं वा-अभिवादनं कर्तुं, नमस्कर्तु-प्रणामपूर्वकं प्रशस्तध्वनिभिगुणोत्कीर्तनं कत्तु, तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्राय: तथा पूर्वं प्रथममनालप्तने सता अन्यतीथिकैस्तानेवालपितुं वा-सकृत् सम्भाषितुं संलपितुं वापुनः पुनः संलापं कर्तुं यतस्ते तप्ततायोगोलककल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात् । तथाऽऽलापादेः सकाशात् परिचयेन तस्यैव तस्य परिजनस्य वा मिथ्यात्वप्राप्तिरिति, प्रथमालप्तेन त्वसम्भ्रमलोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यमिति । तता तेभ्योऽन्ययूथिकेभ्योऽशनादि दातुं वा सकृत, अनु प्रदातुं वा पुनः पुनरित्यर्थः अयञ्च निषेधो धर्मबुद्ध्यैव करुणया तु दद्यादपि, किं सर्वथा न कल्पते ? इत्याह-'नन्नत्थरायाभिओगेणं' ति न इति-न कल्पते योऽयं निषेधः सोऽन्यत्र राजाभियोगात् तृतीयायाः पञ्चम्यर्थत्वात्, राजाभियोगं वर्जयित्वेत्यर्थः । राजाभियोगस्तु-राजपरतन्त्रता, गणः-समुदायस्तदभियोगः-पारवश्यता गणाभियोगस्तस्माद्, बलाभियोगो नाम-राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं, देवताभियोगोदेवपरतन्त्रता, गुरुनिग्रहो-मातापितृपारवश्यं, गुरूणां वा-चैत्यसाधूनां निग्रह:-प्रत्यनीक
D:\ratan.pm5\5th proof