________________
श्रीविचाररत्नाकरे प्राच्यतटे
॥सप्तमस्तरङ्गः॥ काष्ठोपमानि परमतहृदयान्यपि युक्तिसमीरलहरीभिः ।
सुरभयति य इह तस्मै, जैनागमचन्दनाय नमः ॥१॥ अथ परिपाट्यायाताः श्रेठपासकदशाङ्गवचारा लिख्यते
ननु नास्त्येव प्रतिमावन्दनविधि: यदि स्यात्तदा भगवतः श्रबीस्ये यन्तः श्रावका अभूवन् तेषु केन प्रतिमा नमस्कृतेति सिद्धान्ते दर्शनीयं इति प्रतिमाद्विषो वदन्ति, तच्च जडजनानां हृदयङ्गमं न विदुषाम् । यतआनन्से सुश्रावके न सम्यक्त्वोच्चारसमये अन्यतीर्थिकपरिगृहीतार्हच्चैत्यवन्दननिषेधनद्वारेणान्यार्हच्चैत्यवन्दनस्य सुतरां स्वीकृतत्वात्। ननु निषेधसूत्रेऽर्हच्चैत्यवन्दनं यथा प्रतिपादितं तथा विधिसूत्रे कुतो नोक्तम्? किं च यदि अन्यतीर्थिक परिगृहीतार्हच्चैत्यवन्दनं निषिद्धं तर्हि अन्यतीथिकापरिगृहीतार्हच्चैत्यवन्दनमनुक्तमपि कथमापतितम्? इति चेत्? अरे अदृष्टन्यायमार्ग! मैवं वादी
J, तावत् विशेषविधिनिषेधौहिशेषनिषेधाभ्यनुज्ञाफलौ यथा-ब्राह्मणेभ्यो दधि देयं, तक्रं कौडिन्याय। अत्र कौडिन्यगोत्राय ब्राह्मणाय तक्रं देयम्, अयं हिविशेषविधिः, तेन च शेषाणां ब्राह्मणानां तक्र निषेधः स्पष्टमेव प्रतीयते । तथा ब्राह्मणा भोजनीयाः कौण्डिन्याय च तक्रं न देयम्, इत्यत्र विशेषनिषेधे शेषाणां ब्राह्मणानां तर्क देयम्, इत्यभ्यनुज्ञा प्रतीयत एव। तथा चात्रापि अन्यतीर्थिकपरिगृहीतार्हच्चैत्यवन्दननिषेधलक्षणेन विशेषनिषेधेन शेषार्हच्चैत्यवन्दनानुज्ञा सुप्रतीतैव। किञ्च मूलतो निषिद्धे देशतो निषेधोऽप्ययौक्तिक एव प्राणातिपातादिवत्। अर्हच्चैत्यशब्देन यत्साधुवृक्षनगाद्यर्थान्तरकल्पनं तत्तु शाब्दिकैस्तार्किकैः सहृदयैः श्रोतुमप्यशक्यमित्यपकर्णनीयम्। तत्सूत्रञ्चेदम्
समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-नो खलु मे भंते ! कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा
१. उपा./अ.१/१० सू. ।
D:\ratan.pm5\5th proof