________________
[श्रीविचाररत्नाकरः अप्पडियपच्चक्खायपावकम्मे त्ति कट्ट' असंयतः संयमरहितत्वात्, अविरतो विशेषतस्तपस्यरतत्वात्, न प्रतिहतानि-न प्रतिषेधितानि अतीतकालकृतानि निन्दनतः, न प्रत्याख्यातानि च भविष्यत्कालभावीनि, पापकर्माणि-प्राणातिपातादिक्रिया येन अथवा न प्रतिहतानि सागरोपमकोटाकोट्यन्तःप्रवेशनेन सम्यक्त्वलाभतः न च प्रत्याख्यातानि सागरोपमकोटाकोट्याः सह ख्यातसागरैन्यूनताकरणेन सर्वविरतिलाभतपापकर्माणिज्ञानावरणादीनि येन स तथा पदत्रयस्य कर्मधारयः,इति श्रीज्ञाताषोडशाध्ययने १७२ प्रतौ १४७ पत्रे ॥५॥
अपरं च यदिद्रौपदीश्राविका न स्यात्तदापद्मनाभो स्वभवने आहृता सती आचाम्लपरिगृहीतं षष्ठंषष्ठेन तपः कथं कृतवती ? तच्चोक्तम्
१"तते णं सा दोवती देवी पउमणाभं एवं वयासी-एवं खलु देवा० जंबुद्दीवे दीवे भारहे वासे बारवतीए णयरीए कन्हे णामं वासुदेवे मम पियभाउए परिवसति, तं जति णं से छन्हं मासाणं मम कूवं नो हव्वमागच्छइ तते णं अहं देवा० जं तुमं वदसी तस्स आणाओवयणणिद्देसे चिट्ठिस्सामि । तते णं से पउमे दोवतीए एयमटुं पडिसणेत्ता दोवतिं देविं कन्नतेउरे ठवेति । तते णं सा दोवती देवी छटुंछट्टेणं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरइ'' इति वृत्तिस्तु सुगमत्वादस्य नास्ति ।इति ज्ञाताषोडशाध्ययने १७२ प्रतौ १४८ पत्र॥६॥
केचिच्चोत्सूत्रभाषी यदि तस्मिन्नेव भवे आलोचयति तदा तत्प्रतिकार: स्यात्, अन्यथा तस्मिन् भवे आलोचनाभावे च नियमादनन्त एव संसार इति प्रलपन्ति, तच्चायुक्तमेव, यतःकालदिव्या यथाछन्दाया उत्सूत्रभाषिण्या अपि तद्भवेऽगृहीतालोचनाया अपि नानन्तसंसारित्वं श्रूयते, किं तु इतस्तृतीयभवे मुक्तिरुक्ता । ननु यदीयं यथाछन्दोक्ता तदोत्सूत्रभाषिणीति कथमुच्यते ? इति चेन्मैवम्, यथाच्छन्दोत्सूत्रभाषिणोरैक्येनैवोक्तत्वात् । तथा हि
"उस्सुत्तमायरंतो, उस्सुत्तं चेव पन्नवेमाणो। एसो त्ति अहाछंदो, इच्छाछंदो त्ति एगट्ठा" ॥१॥[प्रसा./१२१]
१. ज्ञाता./१-१६/१७५ सू. ।
D:\ratan.pm5\5th proof