________________
श्रीविचाररत्नाकरे प्राच्यतटे षष्ठस्तरङ्गः]
[१०३ करोति स्म, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैर्दर्पणाद्यष्टमङ्गलकालेखनं च करोति, 'वामं जाणुं अंचेइ'त्ति उत्क्षिपतीत्यर्थः, 'दाहिणं जाणुं धरणितलंसि निहट्ट' निहत्य स्थापयित्वेत्यर्थः, 'तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ' निवेशयतीत्यर्थः । 'इसिं पच्चुन्नमइ करतलपरिग्गहियं अंजलिं मत्थए कट्ट एवं वयासी-नमो त्थु णं अरिहंताणं जाव संपत्ताणं वंदति नमंसति नमंसित्ता जिणघराउ पडिनिक्खमइ' त्ति तत्र वन्दते चैत्यवन्दनविधिना प्रसिद्धेन नमस्यति पश्चात् प्रणिधानादियोगेनेति वृद्धाः न चद्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यम्, चरितानुवादरूपत्वादस्य, न च चरितानुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथासूर्याभदिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते तदपि विधेयं स्यात् । किञ्चाविरतानां प्रणिपातदण्डकमात्रमपि चैत्यवन्दनं संभाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितम्, जीवाभिगमवृत्कृिता विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः। ततो वन्दते सामान्येन, नमस्यति आशयवृद्धेः प्रीत्युत्थानरूपनमस्कारेणेति ।इति श्रीज्ञाताषोडशाध्ययने ९८ प्रतौ ८९ पत्रे ॥४॥
केचिच्च प्रतिमापूजकत्वेर्ण्ययैवद्रौपदमश्राविकां वदन्ति, सा च गेहे नदितैव । यतः साद्रौपदीपरमश्राविका प्रतीयते, येन नारदमसंयतमविरतमिति कृत्वाऽभ्युत्थानादि न कृतवती । तथा हि
१तते णं से पंडुराया कच्छुल्लणारयं एज्जमाणं पासति पासित्ता पंचहिं पंडवेहिं कुंतीए देवीए य सद्धिं आसणातो अब्भुढेति अब्भुट्टित्ता कच्छुल्लणारयं सत्तट्ठपयाई पच्चुग्गच्छइ पच्चुग्गच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति नमंसति महारिहेणं आसणेणं उवणिमंतेति । तत्ते णं से कच्छुल्लणारए उदगपरिफासियाए दब्भुवरिपच्चुत्थुयाए निसियाए णिसीयति णिसीयित्ता पंडा य रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ । तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढायंति जाव पज्जुवासंति । तते णं सा दोवती देवी कच्छुल्लणारयं अस्संजयअविरयअप्पडियपच्चक्खायपावकम्मं ति कट्ट नो आढाति नो परियाणति नो अब्भुटेति नो पज्जुवासति''इति वृत्तिर्यथा-'अस्संजय-अविरय
१. ज्ञाता./१-१६/१७४ सू.।
D:\ratan.pm5\5th proof